________________
नानागतिप्रचारनृत्यम् ] मुं० २० को०-उल्लास ४, परीक्षण ३
यथा यथा भवेद्रक्तिः पश्यतां सचमत्कृतिः। ... तथा तथा विधातव्यं सङ्गीतमिति सङ्ग्रहः ॥ . .
... ॥ इति देशीलास्याङ्गानि ॥
[नानागतिप्रचारनृत्यम् ।। 'अथ नानागतिप्रचारनृत्यम् । यथा चाह भगवान् श्रीभरताचार्य:- 5
तत्रोपवहनं कृत्वा भाण्डवायपुरस्कृतम् । यथामार्गरसोपेतं प्रकृतीनां प्रवेशने ॥ ध्रुवायां संप्रवृत्तायां पटे चैवापकर्षिते। कार्यः प्रवेशः पात्राणां नानार्थरससंभवः॥
' रङ्गे विकृष्टे भरतेन कार्यों
गतागतैः पादगतिप्रचारः। ज्यस्रस्त्रिकोणे चतुरस्ररङ्गे
गतिप्रचारश्चतुरस्र एव ॥ ऋषय ऊचुः
यदा मनुष्या राजानस्तेषां देव गतिः कथम् । अथोच्यते कथं नेया गती राज्ञां भविष्यति ॥ इह प्रकृतयो दिव्या [तथा च दिव्यमानुषी। मानुषी चेति विज्ञेया नाट्यत्तक्रियां प्रति ॥ देवानां प्रकृतिर्दिव्या राज्ञां वै दिव्यमानुषी। या त्वन्या लोकविदिता] मानुषी सा प्रकीर्तिता॥ देवांशजास्तु राजानो वेदाध्याये सुकीर्तितम् । एवं देवानुकरणे दोषो ह्यत्र न विद्यते ॥ दूतीदर्शितमार्गस्तु प्रविशेद्रङ्गमण्डलम् । तस्याद्य (? स्माच) प्रकृति ज्ञात्वा भावं कार्य च तत्त्वतः । गतिप्रचारं विभजेन्नानावस्थान्तरात्मकम् ॥
९२० . 1 ABO अथ देशीनृत्यभेदाः । A has the same reading but there are marks of delition on it. 2 ABO ताण्ड cf भाण्डवाद्यपुरस्कृतम् ना. शा. अ. १२ श्लो.२ (G.O. S.). 3 ABC °पेत प्र° cf यथामार्गरसोपेतं ibid. 4 'ABO सुरतेन कायो। cf रङ्गे विकृष्टे भरतेन कार्यों । ना. शा. अ. १२ श्लो. २० (G. 0. S.). 5 AB0 यथा । of अ. १२ श्लो. २५ । 6 ABC वेद । cf यदा मनुष्या राजानस्तेषां देवगतिः कथम् । ना. शा. अ. १२ श्लो. २५ (G. O. S.). 7 ना. शा. नैषा । 8 inserted from ना: शा. अ.१२ श्लो. २५-२६. नि. सा. 9 तस्मात्तु । ना. शा. अ..१२ श्लो. १४२ (G. 0.S.)............ .......: ... २७ नृ० रत्न० .