________________
*
मण्डूककलासाः] नु० र० को०-उल्लास ४, परीक्षण १
धृतमुक्ते बको मत्स्येऽनुपदं हस्तकानपि ॥ अलपद्ममरालं च मुकुलं चापि तन्वती । चित्रं नृत्यति यत्रैषा भेदः प्रोक्तस्तृतीयकः॥
[॥३॥] उत्तानवञ्चितौ हस्तौ यथा कृत्वार्द्धचन्द्रकम् । कट्यां निवेश्य हस्तं च प्रपदाभ्यामथारभेत् ॥ नानागतिविशेषांश्च धनुर्वत् पृष्ठतः पुरः। वक्राकृतिः पदाङ्गुष्ठपाणिसंस्पर्शलालसा । प्रनृत्यति यदा चित्रं भेदः प्रोक्तश्चतुर्थकः॥
[॥४॥] ॥ इति वककलासचतुष्टयम् ॥
[ मण्डूककलासाः।] त्रिपताकं करं कृत्वोत्प्लुत्योत्प्लुत्य समे पदे । सर्वतो दधती चित्रं विषमासनमास्थिता ॥ यत्र नृत्यति स प्रोक्तः कलासः प्लवसंज्ञकः। . . त्रिपताको पताको वा नाभौ कृत्वा करौ ततः ॥ प्रयाति पद्धयां पश्चाचेत्तालस्यानुगुणं यदा। तदायमाद्यभेदः स्यात्प्लवस्य मुनिसंमतः ॥
[॥१॥] त्रिपताको करौ कृत्वा वामपादं पुरःसरम् । हस्तं च वाममेवं स्याल्लघुमानेन वामतः॥ गत्वा तत्रासनं कृत्वा समं विषममेव वा । ततः स्थानात् समुत्प्लुत्य गच्छेच्चेत्तुल्यपादिकाम् । मण्डूकस्य द्वितीयोऽयं भेदः प्रोक्तस्तदा वुधैः॥
[॥२॥] त्रिपताको करौ कृत्वा समं वा विषमासनम् । .. स्थित्वा स्थित्वा समुत्प्लुत्य चरणौ दधती क्षितौ ॥ .. पुरो गच्छति पश्चाच लघुमानेन चेत्तदा । .. . पश्यन्ती धरणी प्रोक्तः प्लवभेदस्तृतीयकः ॥
[॥३॥]
७४
15
20
८०