SearchBrowseAboutContactDonate
Page Preview
Page 126
Loading...
Download File
Download File
Page Text
________________ - १८८ 5 10 15 20 25 30 नृ० २० को०- उल्लास ४, परीक्षण १ [ विद्युत्कलासाः विद्युत्खङ्गौ ततो गुरुणा द्वौ मृगयकौ च मण्डूकः । लघुना द्रुतेन हंसः परिमीयन्ते क्रमात् पडमी ॥ विद्युत्कलास इष्टः षोढा खञ्चतुर्विधः कृतिभिः । एको मृगककलासो चकसंज्ञः स्याच्चतुर्धाऽत्र ॥ दर्दुरकोsपि चतुर्धा हंसकलासस्तु त्रिधा ज्ञेयः । एवं द्वाविंशतिधा कलासभेदाः समासेन ॥ * [ विद्युत्कलासाः । ] वर्षासु जलदराजिषु सचमत्कारं यथाऽचिरविलासा । विलसति तथा पताकप्रमुखाः हुनमानतस्तिर्यक् ॥ यस्मिन्नूर्ध्व मधोऽधः प्रकाशमायान्ति हस्तकाः सततम् । विद्युदिव चञ्चलस्तं वदन्ति विद्युत्कलासमिह ॥ पताकं वामहस्तं तु नत्वा दक्षिणकर्णगम् । दक्षं पुनः कटीं वामां वामजङ्घां तथाविधम् ॥ एतद्विपर्ययाद्धस्तद्वन्द्वं कृत्वा ततो नु च । मुखसन्मुखमानेयमित्याद्यो भेद इष्यते ॥ ॥ इति प्रथमः ॥ १ ॥ * अर्धचन्द्र करं कृत्वा दक्षिणं तं खसंमुखम् । आनीय कार्मुकाकारं जानु कुर्याद् द्वितीयके ॥ ॥ इति द्वितीयः ॥ २ ॥ * अञ्जलिं हस्तमाधाय समदृष्टिस्तदङ्गुली | प्रसार्य शिखरं कृत्वाऽग्रे भुजौ सारयेत्परे ॥ ॥ इति तृतीयः ॥ ३ ॥ * केशबन्धौ करौ कृत्वाऽलिके सव्येतरं करम् । वामं कृत्वा मूर्ध्नि कुर्यात् पताकौ च चतुर्थके ॥ ॥ इति चतुर्थकः ॥ ४ ॥ * हस्तं पुष्पपुटं कृत्वा विलोक्य च ततः पुनः । कृत्वोत्सङ्गं स्पृशेत् पश्चाद् दक्षिणं चरणं नटः ॥ : हस्तेन दक्षिणेन प्राग्यामाङ्घ्रि वामकेन तु । इति पञ्चमभेदोऽयं सम्यगन प्रदर्शितः ॥ ॥ इति पञ्चमः ॥ ५ ॥ ३९ ४० ४१ ४३ ४४ ४५ ४६. ४७ ४८. ५०
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy