SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ १७० क 10. 15 नृ० र० को०- उल्लास ३, आ० सं० प्रकरणम् यथा गीते सदाभोगः शिखरत्वे निरूपितः । तथा नृत्ये च तासां तु नर्तनं कलशोपमम् ॥ आभोगनर्तने प्रोक्ता अमर्यो मुख्यतो बुधैः । विशेषाद्गमकादीनां सुप्रभास्ताः प्रकीर्तिताः ॥ भरतोक्ता अपि त्यक्त्वा अल्पाल्पाः करणे स्वके । ताभ्यः कियत्यो वक्ष्यन्ते कामसंजीविकास्तु याः ॥ 25 * पताकं हृदये न्यस्य करेऽन्यस्मिन् प्रसारिते । तदेवाएं बहिः क्षिश्वा भ्रमणाद् हृदयङ्गमाः । भ्रमे यत्र स्मृतोऽभ्याससुहृद्भिरित्रः पुरःसरम् ॥ ॥ इति हृदयंगमाः ॥ १ ॥ * बाह्रोः पताकौ संन्यस्य भ्रमणादङ्कमौलिका । शिरः पल्लविका चाथ द्वितीया कथ्यतेऽधुना ॥ ललाटे तु पताकः स्या[द्] भवेदन्यः प्रसारितः । बाह्रोः प्रसारणं कृत्वा करौ स्यातां द्रुतमौ । नर्तनाच शिरोदेशे द्वितीया शीर्षपल्लवा ॥ ॥ इति शीर्षपल्लवाह्रयम् ॥ २ ॥ एका कुञ्चितं कृत्वा द्वितीये पाष्णितः स्थिते । यथोल्लासकरौ तस्यां भ्रमणात् कुञ्चिता मता ॥ ॥ इति कुञ्चिता ॥ ३ ॥ * AR 20 ताले ताले कुञ्चिता स्यात् तथैवास्थिता सती। कुञ्चिताया द्रुतस्पर्धा विज्ञेया भूमिपल्लवा || ॥ इति भूमिपल्लवा ॥ ४ ॥ प्रसार्य बाहुयुगले समे वाङ्घ्रिद्वये स्थिता । तत्र वेगभ्रमणतो विज्ञेया चक्रवर्तिनी ॥ ॥ इति चक्रवर्तिनी ॥ ५॥ * सकृद्रेचितहस्तश्चेत् त्यक्त्वा स्थानं च संभ्रमात् । मण्डला सापि निर्दिष्टा द्विधाऽन्या सा प्रकीर्तिता ॥ [हृदयंगमाः ११. १२
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy