________________
वृषभक्रीडितम् ] नृ० र० कौ०-उल्लास ३, परीक्षण १
हस्तरेचितकं कुर्वन् कुर्याच्चारीमलातिकाम् । कुञ्चितौ च करौ कृत्वा व्यावर्तनविधानतः ॥ कृत्वालपद्मौ न्यस्येते करौ चेद्वाहुशीर्षयोः । वृषभक्रीडितं प्राहुस्तदा करणमुत्तमम् ॥ ॥ इति वृषभक्रीडितम् ॥ १०१ ॥
*
चार्यामाविद्धसंज्ञायां व्यावृत्तपरिवर्तितम्' | अलपद्मं करं न्यस्येदूरुपृष्ठे यदा तदा । ससंभ्रमगतौ योज्यं सभ्रान्तं करणं भवेत् ॥ ॥ इति संभ्रान्तम् ' ॥ १०२ ॥
*
*
चारी संघहितां कृत्वा पार्श्वे तत्संनतिं नयेत् । करौ समुद्यतौ कर्तुं तालिकां च यदा तदा । उद्धहितं प्रयोक्तव्यं नृत्ये तज्ज्ञैः प्रमोदकैः ॥ ॥ इत्युद्धट्टितम् ॥ १०३ ॥ सूचीमुखो नृत्यहस्तो दक्षिणश्चेदपेत्य च । उपव्रजेत् करं वामं सोऽविमो निकुट्टकः ॥ एवमङ्गान्तरेऽपि स्यात् सूच्यविदक्षिणः करः । दक्षिणोऽप्यलपद्मः स्यात् वामहस्तोऽपि पूर्ववत् । एवं पुनः पुनर्यत्र विष्कुम्भं तत् प्रकीर्तितम् ॥ ॥ इति विष्कुम्भम् ॥ १०४ ॥
*
1
चारी तु शकटास्या स्यादेको हस्तः प्रसारितः । अङ्घ्रिणा सह हस्तोsन्यो वक्षःस्थः खटकामुखः । यत्रैतत् शकटास्वं स्यात् प्रयोज्यं बालखेलने # ॥ ॥ इति शकटास्यम् ॥ १०५ ॥
*
अरालखटको हस्तौ यत्र व्यावर्तनान्वितौ । सहोरुद्वृत्तया चार्या निदध्यादूरुपृष्ठयोः । ऊरूत्तं प्रेमको प्रार्थनेयस कीर्तितम् ॥ ॥ इति ऊरुद्वृत्तम् ॥ १०६ ॥
..
દર
१७४
१७५
१७६
१७७
१७९
१७८ 15
१८०
१८१
5
1 ABC परिवृत्तितम् | 2 ABC repeat ससंभ्रमगतौ योज्यं from the Samb “hrānta karana. 3 ABO खेदने ।
10
20
25