SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ १६२ 5 10 15 20 25 नृ० २० को० - उल्लास ३, परीक्षण १ प्रसार्य पुनरानीतौ हस्तौ पादौ यदा पुनः । गात्रमुद्वृत्तचारीकमुतं तत् प्रकीर्तितम् ॥ ॥ इत्युद्वृत्तम् ॥ ९४ ॥ * चारी च जनितां कृत्वा करं कुर्याल्लताभिधम् । अन्यं वक्षः स्थितं मुष्टिकरणं जनितं तदा । क्रियारम्भोऽभिनेतव्य एतेन महतां नृणाम् ॥ ॥ इति जनितम् ॥ ९५ ॥ * करौ संघतितली रचयित्वा पताकको । दोलापादां भजेचारी वैष्णवस्थानके स्थितः ॥ दक्षिणं कटिदेशस्थं वामं रेचितमाचरेत् । तलसंघट्टितं तत् ल्यादनुकम्पार्थगोचरम् ॥ ॥ इति तलसंघट्टितम् ॥ ९६ ॥ * आकाशाभिमुखो यत्र कुञ्चितश्चरणो व्रजेत् । रेचितौ च करौ विष्णुकान्तं स्यात् क्रमणे हरेः ॥ ॥ इति विष्णुक्रान्तम् ॥ ९७ ॥ * विधाय चारीमाक्षिप्तां वामतस्तदनन्तरम् । हस्तं विधाय व्यावृत्तं परिवर्तन कारकम् ॥ अरालतां नयेदेनं नते दक्षिणपार्श्वके । एतच्चापसृतं ज्ञेयं विनयेनो ( ? ना ) पसर्पणे ॥ ॥ इत्यपसृतम् ॥ ९८ ॥ * वैष्णवे स्थानके पाणिरेको वक्षसि रेचितः । अन्योऽलपल्लवः शीर्ष लोलितं पार्श्वयोर्द्वयोः । विश्राम्यति यदा प्राहुललितं करणं तदा ॥ ॥ इति लोलितम् ॥ ९९ ॥ * क्रमेण स्वस्तिको पादौ तथैवापसृतौ शिरः । परिवाहितमानीतौ दोलो हस्तौ यदा तदा । मदस्खलितकं प्राहुः प्रयोज्यं मध्यमे प ( ? म ) दे || ॥ इति मदस्खलितम् ॥ १०० ॥ ** [ उद्वृत्तम् १६५ १६६ १६७ १६८ १६९ १७० १७१ १७२ १७३
SR No.010618
Book TitleNrutyaratna Kosh Part 02
Original Sutra AuthorN/A
AuthorRasiklal C Parikh
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1968
Total Pages249
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy