________________
द्वितीयो गुच्छक लक्षण ताण्डवम् । अन्योन्यस्य य स पर्पोद्रक अभिभवेच्छातिशय , तेन दीर्णानि भिन्नानि दिगन्तराणि यस्मिन् तत् । सवर्त-वर्तने प्रलयक्षणे आरब्धम् । दिव्ययो स्त्रीपु सयो –'अचतुर-' (पा० सू० ५।४।७७) इति साधु । ताण्डव नृत्यविशेष । चक्कलकम् कालापकम् चतुभि सबद्धमित्यर्थ । ॥११६-११६।
॥ इति कृतान्तविलसितम् ॥
(१५) एव कालादिवृत्तान्तैर्दुरन्तै कीलिता इव ।
कथ ससारचक्रेऽस्मिन्नाश्वास तात ! दध्महे ॥१२०॥ एवमिति । कीलिता यन्त्रिता । तातेति विशिष्य विश्वामित्र प्रति सबोवनम् ॥१२०॥
कालः कालनाकल्यो दैव दारुणचेष्टितम् ।
कृतान्तः कर्कशस्त्रान्तो वराकी जगती हता ॥१२१॥ कालेति । कवलनाकल्य ग्रासकुशल । जगती भुवनम् । जगती भुवने क्ष्माया छन्दोभेदे जनेऽपि च-इति मेदिनी ॥१२१॥
आयुरत्यन्ततरल मृत्युरेकान्तनिष्ठुरः ।
तारुण्य तरुणीगीर्णं वाल्य बालिशतापदम् ॥१२२॥ आयुरिति । बालिशतापदम् मौयस्थानम् । बालिशश्च शिशौ मूर्खे, भूकेश शैवले वटे-इति मेदिनी ॥१२२॥
लोकोऽभिलषितालोको बन्धवः स्नेहसिन्धवः ।
भोगा जगन्महारोगास्तृष्णाश्च मृगतृष्णिकाः ॥१२३।। लोकेति । अभिलषितालोक इष्टदर्शन । आलोकस्तु पुमान् द्योते दर्शने वन्दिभाषणे-इति मेदिनी ॥१२३॥
द्विषन्त इन्द्रियाण्याशु सत्य मिथ्यातिरस्कृतम् । रजोगुणहता दृष्टिस्तुष्टिनित्यमवस्तुनि ॥१२४॥