SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ द्वितीयो गुच्छक लब्ध्वेति । क्लिश्नन्ति इति क्लेशा । तथा च पतञ्जलि -'अविद्यास्मितारागद्वेषाभिनिवेशा पञ्च क्लेशा' (यो द० २।३) इति ॥७७॥ अशक्तिरापदस्तृष्णा मूकता मूढबुद्धिता । गृध्नुता लोलता दैन्य बाल्ये वल्गन्त्यशृङ्खलम् ॥७८॥ अशक्तीति । गृध्नु गर्धनशील । गृधु अभिकाक्षायाम् । 'त्रसिगृविधृषिक्षिपे क्नु' (पा० सू० ३।२।१४०) इति क्नु । अशङ्खल निरर्गलमिति क्रियाविशेषणम् ॥८॥ रोषरोदनरौद्रीषु दैन्यदीप्तदुराधिषु । दशासु बन्धन बाल्यमालानमिव हस्तिनः ॥७॥ रोषेति । रौद्रय उग्रा । आलान हस्तिबन्धनम् । आलान करिणा बन्धस्तम्भे रज्जौ च न स्त्रियाम्-इति मेदिनी ॥७६।। प्रतिविम्बधनाज्ञान नानासकल्पपेलवम् । बाल्यमालूनसशीर्णमनः कस्य सुखावहम् ॥८०॥ प्रतिविम्बेति । प्रतिबिम्बवद् घन सान्द्रम् अज्ञान यस्मिस्तत् । नानासकल्पै पेलवम् कोमलम् । तत्तत्सकल्पितविषयालाभाद् आलूनवत् सर्वतश्छिन्नवत् सशीर्णवद् दुखितवन् मनो यस्मिस्तत् ॥८॥ सर्वेषामेन सत्त्वाना सर्वावस्थाम्य एव हि । रिशिष्य शैशवे चेतश्चाञ्चल्याधिक्यमृच्छति ॥८१॥ सर्येषामिति । प्रत्यक्षमनुभूतमेतत् ।।८१॥ मनः प्रकृत्यैव चल बाल्यं च चलता वरम् । भ्रात्रोरिव तयोः श्लेषश्चापलायालमेधते ॥२॥ मन इति । पूर्वस्यैव प्रपञ्चनमेतत् ॥२॥ विकल्पकल्पितारम्भे दुर्विलासे दुराशये । श्राः कष्ट मोहमाधत्ते बालो बलवदापतन् ॥८३॥ ॥ इति बाल्यजुगुप्सा ॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy