SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ ६७ द्वितीयो गुच्छक निराकुर्वन् घनाकारमहकारमहाकरी । श्रा ! प्रारोहयते काम दुरारम्भनिपादिनम् ॥४६॥ निरेति । आ । अहकार एव महाकरी मत्तमातङ्ग । घनाकार निराकुर्वन् पराभवन् । दुष्ट आरम्भ दुरारम्भ , स एव निषादी, तम् । काम यथा स्यात् तथा, आरोहयते ॥४६॥ अहो ! अहकृतेः कृत्या यदल्पेऽपि परिच्छदे । अाढ्य मन्या नृपमन्याः प्राज्ञमन्याश्च जज्ञिरे ।।४७॥ अहो इति । अहो । हहो ।। अहकृतेरहकारस्य । कृत्या करणेन चेष्टया अथवा कृत्येति प्रथमान्तम् । यद् यस्मात् कारणाद् अल्पे कतिपयेऽपि । परिच्छदे भोगसामग्रीसत्त्वे । इत्थप्रकृतिका जज्ञिरे-इत्यर्थ ॥४७॥ अहकारेऽम्बुदे शान्ते तृष्णया तडिताऽशमि । विच्छिन्ने विटपारोहे व्रतत्यापि विलीयते ॥४॥ अहमिति । अहकारे अम्बुदे शान्ते सति । तृष्णया तडिता विद्यु ता अपि अशमि शान्तम् । शम्यतेर्भावे लुड् । व्यस्तरूपकम् । विटपारोहे विच्छिन्ने सति, तदालम्बिन्या व्रतत्या वल्लापि । विलीयते शम्यते इति प्रसिद्धम् ।।४८।। अहमित्यस्ति चेद् बुद्धिरहमापदि दुःखितः । नास्ति चेत् सुखितस्तस्मादनहकारिता वरम् ॥४६॥ ॥ इत्यहकारजुगुप्मा॥ अहमिति । अनेनाहकाराभावो व्युत्पादित ॥१|| ॥ इत्यहकारजुगुप्सा ।। मनो मननविक्षुब्ध दिशो दश विगाहते । मन्दरान्दोलनोद्ध तक्षीरोदाम्बुपृषद् यथा ॥५०॥ मन इति । क्षुब्धस्य मनसो दशदिशावगाहने देवासुरैर्मध्यमानस्य हीरोदस्य क्षीराब्धे पृषतो दृष्टान्त ॥५०॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy