SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ ६८ दशकण्ठवधम् भोगदूर्वाङ्क राकाक्षी श्वभ्रपातमचिन्तयन् । इतस्ततो धावमानो न श्राम्यति मनोमृगः ॥५१॥ भोगेति । श्वभ्रपातम् अध पातम् ॥५१॥ क्रोडीकृत दृढग्रन्थितृष्णासूत्रयुजात्मना । पक्षिणा जालकेनेव चेतसा परितप्यते ॥५२॥ क्रोडीति । क्रोडीकृत अन्तर्नीत , दृढग्रन्थि विषयग्रहो यया तादृशी, तृष्णैव सूत्रम् तन्तु , तेन युज्यते इति तथाभूतेन । आत्मना बलप्राणभृता चेतनेन । का। पक्षिणा जालबन्धेन इव । चेतसा करणेन परितप्यते क्लिश्यते-इत्यर्थ ॥२॥ अनल्पकल्पनातल्पे विलीनाश्चित्तवृत्तयः । बोध्यमाना न बुध्यन्ते तदत्यर्थ व्यथामहे ॥५३॥ अनल्पेति । अनल्पकल्पनैव तल्पम्, तत्र । तल्पपट्टे शय्या-कलत्रयो इति द्विस्वरे हैम । व्यथामहे-व्यथ भय सचलनयो ॥५३॥ अवान्तरे निपाताय प्रान्तरे भ्रमणाय वा । तृणेन पवनेनेव चेतसा बहु चल्यते ॥५४॥ अपान्तरेति । अवान्तरे अकाण्डे । निपाताय प्रशमाय । प्रान्तरे शून्ये । भ्रमणाय गमनाय । पवनेन वायुना, तृणेन इव । चेतसा, बहु अधि कम् । चल्यते भ्रम्यते ॥५४॥ धूमिना मत्सरौघेण ज्वालिनाऽनन्तचिन्तया । श्राश्रयाशेन मनसा प्लुष्यते स्फारमन्तरम् ॥५५॥ धूमिनेति । मत्सरौघेण अन्यशुभद्वेषावेशेन । धूमिना धूमवता । ज्यालिना ज्वालाविष्टेन । आश्रयाशेन अग्निना इव । मनसा अन्तर स्फार बहु प्लुष्यते दह्यते ॥५॥
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy