SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ दशकण्ठवधम् हदिति । हे विश्वशिल्पिन् विश्वस्थपते । हृदेव कन्दरा गुहा, तदाश्रयिणि । मानसगुहाधिष्ठातरीत्यर्थ । धर्ममेघभाव पातञ्जलप्रतिपादित धर्ममेघत्वम् । बिभ्रति बिभ्राणे । अमृतवर्षिणि अमृतमुचि । भवति त्वयि जागरूके । एष अयम् । अणुबिन्दु आणवादिमलेन सकुचत्प्रसर । व्याजृम्भमाणा विकस्वरा, या चिति चिदेव शुक्ति मुक्तास्फोट , तत्र निरर्गला सकोचविगलनेन स्वच्छन्दा श्री सुषमा यस्य तादृश सन् । मौक्तिकक्ला जीवन्मुक्तिदशाम् । अभ्येति प्राप्नोति । आणवादिमलत्रय तु 'गोपितस्वमहिम्नोऽस्य समोहाद्विस्मृतात्मन । य सकोच स एवास्मिन्नाणवो मल उच्यते ॥१॥ षट्कञ्चुकव्याप्तिवशाद्विलोपितनिजस्थिते । भूतदेहस्थितिर्यासौ मायीयो मल उच्यते ॥२॥ यदन्त करणाधीनबुद्धिकर्मेन्द्रियादिभि । बहिव्याप्रियते काम मलमेतस्य तन्मतम् ॥३॥' इत्युक्तमाचार्यश्रीवामदेवपादै ॥७॥ क्रोधानलक्कथितदैवतसिद्धसाध्यः सोऽबाध्य एव सकलस्य मनुष्यवर्जम् । तस्मात् प्रभो ! दशरथात्मजतामुपेत्य सदयो विधेहि दशकण्ठवधेजधानम् ॥५८॥ क्रोधेति । क्रोध एव दाहकत्वात् अनल ज्वलन , तेन कथिता विशीर्णा । कथे निष्पाके क्त । दैवतानि सिद्धा साध्याश्च येन तथोक्त । स रावण । अन्वर्थनामा। मनुष्यवर्ज मनुष्य वर्जयित्वा । सकलस्य समस्तस्य । अबाध्य बाधनानह एव । हे प्रभो । स्वैरिन् । । तस्माद् हेतो दशरथस्य राज्ञ , आत्मजता पुत्रभावम् । उपेत्य प्राप्य । सद्य शीघ्रम् । दशकण्ठस्य दशग्रीवस्य, वधे हनने अवधान प्रणिधान विधेहि कुरुष्व । 'दशकण्ठरधे काव्ये अवधान विधेहि' इति ध्वन्यते ॥५॥ भूमण्डले वयमपि द्रुतमेव युष्म सेवाकृते विविधयोनिषु सभवामः ।
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy