SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ४६ प्रथमो गुच्छक यत्र प्रकाशमधिगच्छति कल्पवृक्ष स्तत्रैव सर्वविभमा हि परिस्फुरन्ति ॥५६॥ भूमण्डल इति । हे प्रभो । वयमपि, युष्मत्सेवाकृते युष्माकमाराधनाय । भूमण्डले भूतले । द्रुतमेव झटित्येव । विविवयोनिषु नानायोनिषु । यथोपयोग सभवाम उत्पत्स्यामहे । हि यस्मात्, यत्र कल्पवृक्ष प्रकाशमविगच्छति उदेति । तत्रैव सर्वविभवा सर्वे उपयुक्ता भावा । परिस्फुरन्ति उद्यन्ति ।।५।। इत्युक्तमत्सु दिविषत्सु स दीनबन्धु नीलाचलोद्गतहिमाशुरुचिस्मिताभिः । पीयूषवर्षमधुराभिरुदारगीर्भि राश्वास्य तान्चिधुरितान्नयनातिगोऽभूत् ॥६०॥ इतीति । इति इत्थम् । उक्तवत्सु कथितवत्सु । दिविषत्सु द्यु सत्सु । स. दीनाना दुर्विधानाम् । बन्धु बान्धव । तान् दिविषद । विधुरितान् विह्वलान् । नीलाचलात् मरकताद्र, उद्गत उदित , य हिमाशु हिमकर , तस्य रुचिवत् कान्तिवत, स्मित यासु तादृशीभि । पीयूषवर्षवत् सुधावृष्टिवत् मधुराभि श्रवणपेयाभि । उदारगीनि प्रशस्तवाग्भि | आश्वास्य सतोष्य । नयनातिग अन्तर्हित । अभूत अजनिष्ट । एतानि नव वसन्ततिलकावृत्तानि ॥६॥ ततो वैतानाद् वैश्वानरादुद्भ तो विष्वग्निसारिदीप्तिदीप्तः विग्रहवान् विभावसुरिव, नूतनस्तनयित्नुसच्छायकायो नवजवाकुसुमकान्तिवसनः शिशिरारुणरागरञ्जितमरकतशिखरीव लोहितोष्ठपल्लवः, प्रभाकरबिम्बफिसलयितरोदसीशकलसधिरिव स्निग्धहर्यक्षरोमसोदरश्मश्रु मूर्धजः, सौदामनीदामदन्तुरितधनाधनाभोग इव दिव्याभरणसवीतः, सुरासुरसघर्ष इस सुलक्षणोऽपि पिलक्षणः, दुन्दुभिस्सानगभीरया गिरात्मान प्राजापत्य पुरुष शसन्, पराभयस्तम्भाभ्यामिर दोर्ध्या योगाहितसकोचा, भुवनाण्डप्रतिकृतिमिव दिव्यपायसपरिपूर्णा स्वर्णपात्रीम्, पुत्रीयते पिनीताय दशरथाय वितीर्य तिरोधात् ॥६१।।
SR No.010592
Book TitleDashkanthvadham
Original Sutra AuthorN/A
AuthorDurgaprasad Dvivedi
PublisherRajasthan Prachyavidya Pratishthan Jodhpur
Publication Year1960
Total Pages166
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy