SearchBrowseAboutContactDonate
Page Preview
Page 101
Loading...
Download File
Download File
Page Text
________________ को. २६-२७ ] बाह्येन्द्रियदशकम् । सात्त्विकमेकादशमाख्यातुं बाह्येन्द्रियदशकं तावदाहबुद्धीन्द्रियाणि चक्षुः श्रोत्रघ्राणरसनत्वगाख्यानि । वाक्पाणिपादपायूपस्थानि कर्मेन्द्रियाण्याहुः ॥ २६ ॥ बुद्धीन्द्रियाणि " इति । सात्त्विकाहङ्कारोपादानत्वमिन्द्रियत्वम् । तच्च द्विविधम् बुद्धीन्द्रियं कर्मेन्द्रियं च । उभयमप्येतदि( १५३ ) बाह्येन्द्रियदश न्द्रस्यात्मनश्चिह्नत्वादिन्द्रियमुच्यते । तानि च स्वसंकम् इन्द्रियलक्षणम् पद- ज्ञाभिश्चक्षुरादिभिरुक्तानि । तत्र रूपग्रहणलिङ्गं चक्षुः, व्युत्पत्तिश्च ॥ शब्दग्रहणलिङ्गं श्रोत्रम्, गन्धग्रहणलिंगं घ्राणम्, रसग्रहणलिङ्गं रसनम्, स्पर्शग्रहणलिङ्ग त्वक्, इति ज्ञानेन्द्रियाणां संज्ञा । एवं वागादीनां कार्यं वक्ष्यति ( कारिका २८ ) ॥ २६॥ एकादशमिन्द्रियमाह - "C - उभयात्मकमत्र मनः, सङ्कल्पकमिन्द्रियं च साधर्म्यात् । गुणपरिणाम विशेषान्नानात्वं बाह्यभेदाश्च ॥ २७ ॥ ४५ 66 उभयात्मकम् ” इति । एकादशस्विन्द्रियेषु मध्ये मन उभयात्मकम्, ( १५४ ) मनसो बुद्धिक- बुद्धीन्द्रियं कर्मेन्द्रियं च चक्षुरादीनां वागादीनां च • र्मोभयात्मकत्वसाधनम् ॥ मनोऽधिष्ठितानामेव स्वस्वविषयेषु प्रवृत्तेः ॥ तदसाधारणेन रूपेण लक्षयति - " सङ्कल्पकमत्र मनः " इति । सङ्कल्पेन रूपेण ( १५५ ) मनसो लक्षणम् -सङ्कल्पकम्, लक्ष समन्वयश्च ॥ सम्मुग्धं वस्तुमात्रं तु प्राग्गृह्णन्त्यविकल्पितम् । तत् सामान्यविशेषाभ्यां कल्पयन्ति मनीषिणः ' || इति ॥ तथाहि, मनो लक्ष्यते । 'आलोचितमिन्द्रियेण वस्त्विदम् ' इति सम्मुग्धम् ' इदमेवम्, नैवम् ' इति सम्यक्कल्पयति विशेषणविशेष्यभावेन विवेचयतीति यावत् । यदाहुः १. ' इं ' विषयाः, तान् प्रति द्रवन्तीति 'इन्द्रिय ' शब्दव्युत्पत्तिः कैश्चित् क्रियते ।
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy