SearchBrowseAboutContactDonate
Page Preview
Page 100
Loading...
Download File
Download File
Page Text
________________ अहङ्कारस्य कार्यभेदाः । [ खां. त. स्यादेतत्-महङ्कारादेकरूपात्कारणात्कथं जडप्रकाशको गणौ विलक्षणौ भवत ४४ इत्यत आह -- सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः सः तामसः, तैजसादुभयम् ॥ २५ ॥ " सात्विक " इति । प्रकाशलाघवाभ्यामेकादशक इन्द्रियगणः सात्त्विको (१५१) एकरूपस्याप्य- वैकृतादहङ्कारास्प्रवर्तते । भूतादेस्त्वहङ्कारात्तामसात्तहङ्कारस्य गुणभेदाद्विकार- न्मात्री गणः प्रवर्तते । कस्मात् ? यत् ' स तामसः' । भेदाः - सत्त्वादिन्द्रियगणः, एतदुक्तम्भवति ' यद्यप्यको ऽहङ्कारस्तथा ऽपि गुणतामसात्तन्मात्रगणः ॥ भेदोद्भवाभिभवाभ्यां भिन्नं कार्यं करोतीति ' ॥ "" ननु यदि सत्त्वतमोभ्यामेव सर्वं कार्यं जन्यते तदा कृतम किञ्चित्करेण रजसे९ स्यत आह- 'तैजसादुभयम्” इति । तैजसाद्राजसादुभयं गुणद्वयं भवति, यद्यपि रजसो न कार्यान्तरमस्ति तथा ऽपि सत्त्वतमसी स्वयमक्रिये समर्थे अपि न स्वस्वकार्यं कुरुतः; रजस्तु चलतया ते यदा चालयति तदा स्वकार्यं कुरुत इति । तदुभयस्मिन्नपि कार्ये araaमसोः क्रियोत्पादनद्वारेणास्ति रजसः कारणत्वमिति न व्यथं रज इति ॥ २५ ॥ ( १५२ ) सत्त्वतमसो :प्रवर्तकतया रजसः सा र्थकता ॥ 6 " १. भाष्यमतेन मनस एवैकस्य सात्त्विकत्वम् इतरेषां दशानां राजसत्त्वमेवेति । २।१८ सूत्रे द्रष्टव्यम् । अहङ्कारतत्त्वं त्रिधा विभक्तम्- 'वैकृत' - 'भूतादि - ' 'तैजसंसंज्ञाभेदात् ' - तदुक्तं गौडपादेन- सत्त्वेनाभिभूते रजस्तमसी यदा अहंकारे भवतः तदा सो ऽहंकारः सात्त्विकः- तस्य संज्ञा कृता ' वैकृत' इति । एवं च तमसाऽभिभूते सत्त्वरजसी यदा ऽहंकार भवतस्तदा सोहंकारस्तामसः - तस्य संज्ञा कृता 'भूतादिः इति ॥ एवमेव यदा ऽहंकारे सत्त्वतमसी रजसाऽभिभूते तदा सोऽहंकारो राजसः ' तैजस' इति संज्ञां लभते " - इति - ›
SR No.010561
Book TitleTattva Kaumudi
Original Sutra AuthorN/A
AuthorOriental Book Agency Poona
PublisherOriental Book Agency Poona
Publication Year
Total Pages329
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy