SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ __ यथा प्रथमत्रते हिंस्यादीनां रक्षणं प्रधानतया वैरानुबन्धाद्याश्च गौणतया, तथा द्वितीयस्मिन्नपि कर्मागमकारणाशुभयोगनिरोधवत् मृषा वादयितुर्यत् जिह्वानुदादयोऽनर्था नृपादिभ्यो भवन्ति तद्वारणं मुख्यतयाऽस्ति, अत एवाऽनुव्रतस्योच्चारणे स्थूलस्य मृषावादस्य लक्षणमेतदेवोच्यते यो जिह्वाछेदादिकरो मृषावादरतं द्वितीयेऽनुव्रते प्रत्याख्याति श्रमणोपासक इति । अत्रेदमवधेयं यदुत-यथा वधविरतौ जगद्वर्तिनां सर्वेषामसुमतां रक्षणं तद्विषयकाऽशुभकर्मागमनिरोधाय वधस्य निषेधद्वारा रक्षणममिमतं, न च जीवनेच्छायामसंयतानामसंयमविषयाऽनुमोदनीयताऽऽसज्यते, ईर्यासमित्यादीनां तद्रक्षणप्रधानानां प्रवचनमातॄणां पापसाधनापत्तेः ।। तथा द्वितीये त्वणुव्रते स्पष्टमेव मृषा वदतामसंयतानां जिह्वाछेदादिदण्डविषयताया वारणमेव फलं, तथा चाऽसंयतानामपि जिह्वाछेदाधनों मा भूदिति कृत्वैव स्थूलमृषावादाद्विरमणं तदनर्थहेतुतामाविर्भाव्यैव कार्यते । _स्थूलमृषावादाद्विरमणं यथा पापागमनिरोधवत् जिह्वाच्छेदाद्यनर्थहेतुतया वार्यते तथा स्थूलप्राणविषयतया स्थूलप्राणातिपातविरमणवत् मृषावादोऽचित्तद्विपद-चतुष्पद विषयतया निवार्यते इति, अपदविषयःमृषावादोपलक्षणतया द्विपद चतुष्पदकन्या-गो-भूमीनां द्विपद-चतुष्पदानां मृषावादो यो जिह्वाच्छेदादिराजदण्डकारणीभूतः स प्रत्याख्यायते, एवं प्राचीनं मृषावादत्रयमवसेयं, शेषद्वयविचारस्त्वेवं. यद्यपि न्यासापहारो यो मृषावादे स्थूले प्रत्याख्यायमाने प्रत्याख्यायते, स स्थूलदृष्ट्या न्यायस्य परार्पितस्य सौवर्णिकादेरपलपनात् स्तेयरुपतामेवानुधावति, अस्ति च तत्र फलरुपता स्तेयस्य, परं तत्रेदमवधेयं यदुत ____ आदौ तावत् यः कश्चिन्न्यासमर्पयितुमिच्छति स तावत्तत्र नगरादौ यस्मै न्यासमर्पयितुमिच्छति, तस्य प्रामाण्यं यथायोग्यमवश्यमन्वेपयति, अन्वेषयञ्च यथायोग्यं पृच्छति जनान् यथाऽमुकः कीदृशः सत्यवाक् प्रामाणिकश्चति ? तत्र च यदा जनेभ्यः स न्यासार्पकः समाकर्णयति यत् त्वयां पृच्छयमानः स श्रेष्ठ्यादिः प्राणान्तेऽपि नाऽसत्यं वक्ति, न चापद्गतोऽपि मृषा वकतुमेष जानाति, नच कपर्दिदकामात्रायापि परद्रव्याय स्पृहयति, न च कपर्दिकात आरभ्य यावत् कोट्यवधिसौवर्णिकेभ्यः स्पृहा तस्यास्ति, येनाऽप्रामाणिकत्वं स्यात् इत्यादि, - तस्य श्रेष्ठयादेः सत्यवक्तृत्वादि सत्यप्रतिज्ञत्वादि च श्रुत्वैव तस्मै स्वप्राणाधिकमपि न्यासं समर्पयति, समर्पयंश्चापि वारं वारं वक्ति च यथा श्रेष्टिन् ! यदाऽहं मार्गयाम्येनं न्यासं तदा निर्विलम्ब मह्यं समर्पणीयोऽयमिति तदा । प्राक् तु तावत् स श्रेष्ठ्यादिस्तस्य न्यासस्य ग्रहणविषये विधत्त एव निषेधं, पश्चान्न्यासार्पको धनं लगित्वा विज्ञप्तिपारम्पर्य चादृत्य तं तत्स्वीकारं वचसा
SR No.010532
Book TitlePanchsutra Varttikam
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Sagaranandsuri
PublisherAgamoddharak Granthmala
Publication Year1971
Total Pages193
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy