________________
सनातनजैनग्रंथमालायां ---
|
॥ ८९ ॥ यस्मान्मं च दश्व प्रामोति तस्माममेव भवति । याति । प्रविशति । अधिकरोति । ● परानुः ॥ ९० ॥ परानुभ्यां कृञो मं भवति । पराकरोति । अनुकरोति ।
मत्यभ्यतिक्षिपः ॥ ९१ ॥ एभ्यः क्षिपे भवति । प्रतिक्षिपति । अभिक्षिपति । अतिक्षिपति । 1 *मादहः ।। ९२ ।। प्राद्वहे भवति । प्रवहति । प्रवहतः । प्रवति ।
* परेः ॥ ९३ ॥ परिपूर्वात् वहेर्मे भवति । परिवहति । ञित्त्वात् फलेशे दे प्राप्ते मं विधीयते । पृथग्वचनमुत्तरार्थं ।
*मृषः ।। ९४ ।। परेर्मृषो मं भवति । परिमृष्यति । परिमृष्यतः ।
व्याङश्च रमः ॥ ९५ ॥ व्याभ्यां परेश्च रमे भवति । विरमति । आरमति । परिरमति । एतेभ्यः किं ? रमते । अभिरमते ।
उपात् ॥ ९६ ॥ उपात् रमेर्मे भवति । उपरमति। उपरमतः। उपरमंति। पृथग् वचनमुत्तरार्थं । बाधेः ॥ ९७ ॥ उपपूर्वात् धिसंज्ञकादमेर्वा मं भवति । यावद् भुक्तमुपरमति, उपरमते वा ।
बुध्युधनराजने मुटुश्रोर्णेः ॥ ९८ ॥ बुधादिभ्यो ण्यतेभ्यो मं भवति । बोधयति । योधयति । नाशयति । जनयति । अध्यापयति । प्रावयति । द्रावयति । श्रावयति ।
चल्यद्यर्थात् ॥ ९९ ॥ चल्यर्थेभ्योऽद्यर्थेभ्यश्च धुम्यो ण्यतेभ्यो म भवति । चलयति । चोपयति । कंपयति । वेपयति । आशयति । निगारयति । भोज यति । अभ्यवहारयति ।
।
क्यषो वा ॥ १०० ॥ क्यषंताद्वा मं भवति । पटपटायति । पटपटायते । लोहितायति । लोहितायते युद्भयो लुङि ॥ १०१ ॥ घुतादिभ्यो लुङि परेवा मं भवति । व्यद्युतत् । व्यद्योतिष्ट । अल्लुटत् । अलोटिष्ट | अशुभत् । अशोभिष्ट । अरुचत् । अरोचिष्ट ।
* सन्नस्ये वृद्भः ॥ १०२ ॥ वृतादिभ्यः सनि स्येच वामं भवति । विवृत्सति । विवर्त्तिषते ।
[ जैनेंद्र
वर्त्स्यति । वर्त्तिष्यते । अवर्त्स्यत् । अवर्त्तिष्यत । विवृत्सति । विषार्द्धते । वर्त्स्यति । वर्द्धिष्यते । अवर्त्यत् । अवर्द्धिष्यत । चिक्लृप्सति । चिकल्पिषते । कल्प्स्यति । कल्पिष्यते । अकल्पस्यत् । अकल्पिष्यत ।
* लोः कृपः ॥ १०३ ॥ कृपेर्लुटो वा मं भवति । कल्ता | कल्पिता । कल्तास्मि । कल्पिताहे ।
नवाध्य आसं ॥ १०४ ॥ नपा निर्दिष्टो बापो भवत्यासमासाधिकारनिवृत्तेरित्यषोऽधिकारो ज्ञेयः । वक्ष्यति प्रोधि च- भिदि । स्फे रुः-शिक्षि । स्फपरस्य प्रस्य विसंज्ञा प्राप्ता रुसंज्ञया बाध्यते ।
वौ स्त्र्याख्यौ मुः ॥ १०५ ॥ ईकारोकारौ त्र्याख्यौ मुसंज्ञौ भवतः । कुमारी । किशोरी । वामोरूः । वधूः । वौ इति किं ? खट्वा । स्त्र्याख्याविति किं ? हे ग्रामणीः । हे खलपूः । मुप्रदेशाः "अण्मोः" इत्यादयः ।
हे
स्त्री ॥ १०६ ॥ स्त्रीशब्दो मुसंज्ञो भवति । त्रि । स्त्रियै । स्त्रियाः । स्त्रीणां ।
आमयुवोः ॥ १०७ ॥ आमि परत इयुवोः स्थानिय वाख्यौ तौ मुसंज्ञौ भवतः । श्रीणां । भ्रूणां । पृथुश्रीणां स्त्रीणां पुरुषाणां वा । नियमार्थमिदं । आम्येव मुसंज्ञा नान्यत्र । हे श्रीः । हे भ्रूः ।
वा ।। १०८ ।। वा मुसंज्ञा भवति आमीयुवो: स्थानिनोः । श्रीणां । श्रियां । भ्रूणां । भ्रुवां ।
ङिति च ॥ १०९ ॥ खोर्यः प्रः स्त्र्याख्यः इयुवोश्व स्थानिनौ यौ य्वौ तेषां मुसंज्ञा भवति ङिति परे वा । बुद्धयै । बुद्धये । धेन्वै । धेनवे । श्रियै । श्रिये । । भ्रुवे ।
|
*स्वसखिपति ।। ११० ।। खोर्यः प्रः स सुसंज्ञो भवति सखिपतिशब्दौ वर्जयित्वा । मुनये । साधवे । बुद्धये । धेनवे । असखिपतीति किं ? सख्या । सख्ये । सख्युः । पत्या । पत्ये । पत्युः ।
प्रो घिच ॥ १११ ॥ प्रा घि संज्ञो भवति । बोद्धा । भेत्ता । चशब्दः संज्ञातरसमावेशार्थः । प्रवि। नय्य गतः । ध्याश्रयो णरयादेशः स्वाश्रयपूर्वनिपातश्च सिद्धः । घिप्रदेशा: "ब्युङः" इत्यादयः ।