________________
१२०
सनातन जैन ग्रंथमालाय ...
परोवरपरंपरपुत्रपौत्रमन्वस्ति ॥ १६८ ॥ परोवरादेोरिबंतात् खो भवति अन्वस्त्यनुभवत्यथें । परांश्चावरांश्वानुभवति परोवरीणः । परांश्च परतरांश्च परंपरीणः। पुत्रांश्च पौत्रांश्च पुत्रपौत्रीणः।
*यथाकामानुकामात्यंतपारावारपारावारावारपारान् गामी ।। १६९ ।। यथाकामादेरिबंतात् गामीत्यास्मिन्नर्थे खो भवति । यथाकामं 1 गामी यथाकामीनः । अनुकामीनः । अत्यंतीनः । पारीणः। अवारणः। पारावारीणः । अवारपारीणः ।
अनुग्वलं ॥ १७० ॥ अनुगुशब्दाद् अलंगामीत्यस्मिन्नर्थे खो भवति । अनुग्वलं गामी अनुगवीनो गोपालः ।
ܕ
छोऽभ्यमित्रं ॥ १७१ ॥ अभ्यमित्रादिबंताच्छो भवति । अभ्यमित्रमलंगामी - अभ्यमित्रीयः । *यः ।। १७२ ।। अस्माद् यो भवति अलंगामिनि | अभ्यमित्र्यः ।
*खश्वाध्वानं च ।। १७३ ॥ अध्वनोऽभ्यमित्राच्तात् खो भवति यश्च । अध्वानमलंगामी अध्वनीनः । अध्वन्यः | अभ्यमित्रीणः ।
समां समां विजायते ॥ ९७४ ॥ समां समां शब्दात् खो भवति विजायतेऽर्थे समां समां विजायते गर्भमादधाति समांसमीना गौः ।
अद्यश्वीनाद्यप्रातीनमासनं १७५ ॥ एतद्वयं खातं निपात्यं आसन्नामित्यास्मिन्नर्थे । अद्यश्वो वा विजनिष्यते अद्यश्वीना गौः । अद्यप्रातीना । आसन्नप्रसवा इत्यर्थः ।
* सर्वान्नीनानुपदीनायानयीनमदद्वद्धानेये ॥ १७६ ॥ सर्वान्नीनादयः खांता निपात्यंते अददाद्यर्थेषु । सर्वान्नमत्ति सर्वान्नीनो भिक्षुः पदसदृशं अनुपदं बद्धा अनुपदीना उपानत् । अयानयं नेयः - अयानयीनः शारः । .
।
* आगवनं ॥ १७७॥ आगो: प्रतिदानात
[ नैनेंद्र-कर्मकारिणि खो निपात्यः प्रतिदानस्य खं । आगो: प्रतिदानं कर्म करोति आगवीनः कर्मकरः । * साप्तपदीनं सख्यं ॥ १७८ ॥ सप्तपदात् खञ् निपात्यः सख्यमित्यस्मिन्नर्थे । सप्तभिः पदै - रवाप्य साप्तपदीनं सख्यं ।
I
गोष्टीनं भूतपूर्वे ॥ १७९ ॥ गोष्ठात् खञ निपात्यते भूतपूर्वेऽर्थे । गोष्ठो भूतपूर्वः गौष्ठीनो देशः ।
चरट् ॥ १८० ॥ भूतपूर्वे चरट् स्यात् । भढ्यो भूतपूर्वः- आढ्य चरः । ऋषिचरः । दर्शनीय चरः ।
ताया रूप्यश्च ।। १८१ ॥ तांतात् रूप्यो भवति चरटू च । देवदत्तस्य भूतपूर्वो गौ: देवदत्तरूप्यः । देवदत्तचरः । देवदत्तचरी ।
* पील्वादेः कुणः पाके ॥ १८२ ॥ पील्वादिभ्यः पाकेऽर्थे कुणो भवति । पीलूनां पाकः पीलुकुणः । कर्कधुकुणः । कररिकुणः ।
|
* कर्णादिपक्षान्मूले जाहति ॥ १८३ ॥ कर्णादेः पक्षाच्च मूलेऽर्थे जा हती त्यौ स्तः । कर्णस्य मूलं कर्णजाहं । मुखजाहं । अक्षिजाहं । पक्षस्य | मूलं पक्षतिः ।
1. तृमोष्णशतादालुरसहे ॥ १८४॥ तृप्रादेरालु स्यात् असहेऽर्थे । तृप्रस्यासह ः तृप्रालुः । उष्णालुः । शीतालुः ।
+ हिमादेलुः सहे ॥१८५॥ हिमाद् सहेऽर्थे एल स्यात् । हिमस्य सहः हिमेलुः ।
÷वातबलादूलः ।। १८६ ॥ आभ्यां ऊलो भवति । वातस्य सहः वातूलः । बलस्य सहः बलूलः ।
d: शालशंकटौ ॥ १८७ ॥ विशब्दात् एतौ त्यौ स्तः स्वार्थे । विसृष्टो - विशाल:, विशंकट:
* व्युत्सन्निमात् कटः ॥ १८८ ॥ एभ्यः कटो भवति । विस्पष्टो - विकटो देशः । उद्गतः उत्कटो गंधः । संगतः संकटः पंथाः । निगतो निकटो ग्रामः । प्रगतः - प्रकटोऽर्थः ।