________________
eघुवृत्ति: ]
शब्दार्णवचंद्रिका | अं० ३ । पा० १ ।
अनीचः ॥ १७ ॥ यदितोऽग्रे वक्ष्यामः तदनीचो वेदितव्यं । वक्ष्यति इञटिड्ढादि । कुरुं चरी । अनीच इति किं ? बहुकुरुचरा ।
स्यात् ऋयभिधेयायां । द्विपदा, त्रिपदा ऋक् । विस्ताद्यंताद् हृदुपि सति ङी न स्यात् । द्विविस्ता । ऋचीति किं ? द्विपदी स्त्री । त्रिविस्ता । याचिता । द्विकंबल्या । कांडात् क्षेत्रे ॥ २८ ॥ कांडात् रात् | हृदुपि ङी न स्यात् क्षेत्रे । द्वे कांडे प्रमाणमस्याः द्विकांडा, त्रिकांडा क्षेत्रभक्तिः । क्षेत्र इति किं ? द्विकांडी रज्जुः ।
* इञटिड्ढाणठणठनः ॥ १८ ॥ एभ्यः स्त्रियां ङी स्यात् । सौतंगमी नगरी । मद्रचरी । सौपर्णेयी । कुंभकारी । औत्सी । लाक्षिकी । पारायणिकी ।
* योऽषावात् ॥ १९ ॥ यत्र॑तान्मृदः स्त्रियां ङी स्यात् षकारांतादवढाच परं यडं विहाय । गार्गी । वात्सी । अपावटादिति किं ? गौ
कक्ष्या । आवटया ।
फट् ॥ २० ॥ यञताद् फट् स्यात् । गायणी । पौतिमाध्यायणी । आवट्यायनी ।
11
लोहितादिशकांतात् ॥ लोहितादिभ्यः शकलपर्यंतेभ्यः फट् स्यात् । लौहित्यायनी । शाशित्यायनी । शाकल्यायनी । लोहितादि: गर्गाद्यंतर्गणः ।
कौरव्यासुरमांकात् ॥ २२ ॥एभ्यः फट् भवति । कौरव्यायणी । आसुरायणी । मांडूकानी |
गौरादिभ्यः || २३ || एभ्यः स्त्रियां ङी स्यात् । गौरी । मत्सी । मानुषी ।
वयस्यनत्ये ॥ २४ ॥ वयसि अनंत्ये वर्तमानान्मृदः स्त्रियां ङी स्यात् । कुमारी । किशोरी । बर्करी । अनंत्य इति किं ? स्थविरा ।
रात् ।। २५ ।। रसंज्ञकान्मृदः स्त्रियां ङी भवति । पंचपूली । पंचतक्षी । दशखी ।
परिमाणाद्धृदुषि ॥ २६ ॥ परिमाणांतात् रादू हृदुपि सति ङी स्यात् । द्वाभ्यां कुडवाभ्यां क्रीता द्विकुडवी । त्रिकुडवी । द्वयाढकी । परिमाणादिति किं ? पंचाश्वा ।
न विस्ताचित कंबल्यात् ॥ २७ ॥
पुरुषात् प्रमाणे वा ।। २९ ।। पुरुषांतात् रात् प्रमाणे वा ङी स्यात् हृदुपि । द्वौ पुरुषौ प्रमामस्याः द्विपुरुषी । द्विपुरुषा | त्रिपुरुषी । त्रिपुरुषा खाता । प्रमाण इति किं ? द्विपुरुषा ।
गुणोक्तेरुतोऽखरुस्फोङः ॥ ३० ॥ गुणवचनान्मृदः खरुस्फोङ्वर्जितात् उकारांतात् वाङी स्यात् । पटुः । पदवी | मृदुः । मृद्वी । पृथुः । पृथ्वी । तनुः । तन्वी । गुणेोक्तरिति किं आखुरियं । उत इति किं ? शुचिः स्त्री | अखरुस्फोः इति किं ? खरुरियं । पांडुरियं ।
ह्रादेः ॥ ३१ ॥ ब्रह्रादिभ्यो वा ङी स्यात् स्त्रियां | बहुः । बह्री । पद्धतिः । पद्धती । अंचतिः । अचती। + इतोऽक्तेः ॥ ३२ ॥ अक्त्यतादिकारांताद् मृदः स्त्रियां वा ङी स्यात् । भूमिः । भूमी | अशनिः । अशनी । आत्मंभरिः । आत्मंभरी। अक्तेरिति किं ? कृतिः ।
+ चंद्रभागान्नद्यां ॥ ३३ ॥ चंद्रभागाद्वा ङी भवत नद्यां । चंद्रभागी, चंद्रभागा नदी । चंद्रभागान्या ।
*शोणश्यैतैतहरितभर तलोहिताद्वर्णात्तो नश्च ॥ ३४ ॥ शांणादेर्वर्णवाचकात् वा ङी स्यात् तत्संन्निधाने तकारस्य च नकारः । शोणी । शोणा । श्येनी, श्येता । एनी, एता । हरिणी, हरिता । भरणी, भरता । लोहिनी, लोहिता । शांणादेरिति किं ? पीता ।
* क्नोऽसितपलितात् ॥ ३५ ॥ वर्णवाचिभ्यामसितपलिताभ्यां वा डी स्यात् तकारस्यच । क्नादेशः । असिक्नी, असिता । पलिक्नी, पलिता * काल शबलसारंग पेशगपिंगलकल्माषात्