SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ ६६ सनातन जैनग्रंथमालाया [ जैनेंद्र * धूक्तौ वाऽयदि ॥ १४५ ॥ धुवचने बा- संप्रश्ने - किं नु खलु जैनेंद्रमधीयीय । प्रार्थने - भवति चि संभाव्य धोर्लिङ् भवति यदिशब्दश्चेन्न प्रयुज्यते | मे जैनेंद्रमधीयीय । अलमर्थात्, अयदि वा । संभावयामि भुंजीत भवान् । अभुंक्त भवान् । धुग्रहणं किं ? अपि खारीपाकं भुंजीत । अयदीति किं ? सभावयामि यत्स भुंजीत । हेतुफले लिङ ॥ १४६ ॥ हेतौ फले च तत्कार्ये वर्तमानाद्घोर्लिङ् वा स्यात् । यदि गुरून् उपासीत शास्त्रांतं गच्छेत् । यदि गुरूनुपासिष्यते शास्त्रांतं गमिष्यति । इच्छोद्बोधेऽकच्चिति ॥ १४७ ॥ इच्छोद्बोधे स्वाभिप्रायत्रेदने गम्यमाने धोलिंड् भवत्यकच्चिति-कचिच्छन्दाप्रयोगे । इच्छा मे शास्त्रमधीयीत भवान् । कामो मे भुंजीत भवान् । अकच्चितीति किं ? कच्चिज्जीवति मे माता कच्चिज्जीवति मे पिता । माराविद त्वां पृच्छामि कच्चिज्जीवति पार्वती ॥ | इच्छार्थे लिङ्गलोर ॥ १४८ ॥ इच्छा धौ वाचि धोर्लिङ्लोटौ स्तः इच्छोद्बोधे गम्यमाने । इच्छामि कामये भुजीत भवान् | प्रार्थये भुंक्तां भवान् । तुमेककर्तृके ॥ १४९ ॥ एककर्तृके इच्छार्थे धौ बाचि तुम् स्यात् । इच्छति भोक्तुं । कामयते भोक्तुं । वष्टि गंतु । एककर्तृके इति किं ? इच्छामि भुक्तां भवान् । लिङ्ग ।। १५० ।। इच्छा एककर्तृके धौ । वाचि लिड् स्यात् । भुजीयेति इच्छति । अधीयीयेति वांछति । * वेतस्सति ॥ १५१ ॥ इतोऽस्मादिच्छा - र्थाद्धोः सति भवति काले लिङ् वा स्यात् । इच्छेत् । इच्छति । उश्यात् । वष्टि । विधिनिमंत्रणामंत्रणाधीष्टसंप्रश्नप्रार्थने लिङ ॥ १५२ ॥ एष्वर्थेषु लिङ् स्यात् । विधौदान कुर्यात् भवान् । प्राणिनो न हिंस्यात् निमंत्रणे - संध्या नियमं कुर्यात् । आमंत्रणे - इह भवान् शयीत । अधीष्टे - तत्त्वं भवान् गृह्णीयात् । । लोट् ॥ १५३ ॥ विध्यादिन्वर्थेषु धोर्लोट् स्यात् । व्रत रक्षतु भवान् । प्राणिनो न हिनस्तु । संध्यासु नियमं करोतु । इह भवानास्तां । तखं गृह्णातु । किं नु खलु धर्मशास्त्रमध्यये । भवति जैनेंद्रमध्यये । * मैषानुज्ञावसरे व्याश्च ॥ १५४ ॥ एष्वर्थेषु धोर्व्याः भवति लोट् च । भवता खलु कटः कर्तव्यः । करणीयः । कार्यः । कटं करोतु भवान् हि प्रेपितोऽनुज्ञातः । भवतोऽवसरः । * लिचोर्ध्व मौहूर्तिके ॥ १५५ ॥ ऊर्ध्वमौ - हूतिकेऽर्थे वर्तमानाद्धोः प्रैषादी गम्यमाने लिङ् भवति व्याश्च यथा प्राप्तं च । उपरि मुहूर्त्तस्य शीघ्रं भवान् दानं दद्यात् । भवता खलु दानं दातव्यं, देयं, दानीयं, ददातु भवान् । प्रपितोऽनुज्ञातो भवतः प्राप्तकालो दानकरणे । स्मे लोद् ॥ १५६ ॥ स्मे वाचि लोट् भवत्यूर्ध्वमोहूतिकेऽर्थे पादौ गम्यमाने । ऊर्ध्वमुहूर्त्ताद् भवान् कटं करोतु स्म प्रेषितोऽनुज्ञातो भवतोऽवसरः । अधीष्टे || १५७ || स्मे वाचि घोर्लोट् भवत्यधीष्टेऽर्थे । अंग स्म राजन् अधीच्छामो भवानणुव्रतानि रक्षतु । कालवेलासमये तुम् वाऽवसरे ॥। १५८ ।। कालादौ वाचि धोर्वा तुम् भवत्यवसरे गम्यमाने । कालो भोक्तुं । वेला भोक्तुं । समयो भोक्तुं । कालो भोक्तव्यस्य । वेला भोजनस्य । समयो भोजनस्य । अवसर इति किं ? कालः पचति भूतानि कालः संहरते प्रजाः । कालः सुप्तेषु जागर्ति कालो हि दुरतिक्रमः ॥ लिङ यदि ॥ १५९ ॥ यच्छब्दप्रयोगे कालादौ वाचि धोरवसरे लिङ् स्यात् । कालो यद्भुं - जीत भवान् । वेला यद् भुंजीत भवान् । समयो यद् भुंजीत । तृज्व्याश्चाई || १६० ॥ अर्हेऽर्थे धोस्तू
SR No.010484
Book TitleShabdarnava Chandrika
Original Sutra AuthorN/A
AuthorShreelal Jain Vyakaranshastri
PublisherPannalal Jain Granthamala
Publication Year1915
Total Pages305
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy