SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ ف नित्योत्सवः शान्तिस्तव: सम्पूजकानां परिपालकानां यतेन्द्रियाणां च तपोधनानाम् । देशस्य राष्ट्रस्य कुलस्य राज्ञां करोतु शान्ति भगवान् कुलेशः ॥ नन्दन्तु साधककुलान्यणिमाऽऽदिसिद्धाः शापाः पतन्तु समयद्विषि योगिनीनाम् । सा शाम्भवी स्फुरतु काऽपि ममाऽप्यवस्था यस्यां गुरोश्चरणपङ्कजमेव लभ्यम् ॥ शिवाद्यवनिपर्यन्तं ब्रह्मादिस्तम्बसंयुतम् । कालाभ्यादिशिवान्तं च जगद्यज्ञेन तृप्यतु ॥ इत्यादिशान्तिश्लोकान् पठित्वा, विशेषार्घ्यविसर्जनम् विशेषार्घ्यपात्रं मूलेन आमस्तकमुद्धृत्य तत् क्षीरं पात्रान्तरेणादाय आर्द्रं ज्वलति ज्योतिरहमस्मि । ज्योतिर्ज्वलति ब्रह्माहमस्मि । योऽहमस्मि ब्रह्माहमस्मि । अहमस्मि ब्रह्माहमस्मि । अहमेवाहं मां जुहोमि स्वाहा ॥ इति मन्त्रेण आत्मनः कुण्डलिन्यमौ हुत्वा शेषं प्रियशिष्याय दत्वा तत्पात्रमन्यानि च हविश्शेषप्रतिपत्तिपात्राणि प्रक्षाळ्य अनौ प्रताप्य अवस्थापयेत् ॥ अथ यथाशक्ति ब्राह्मणान् सुवासिनीश्च भोजयित्वा स्वयमपि भुञ्जीत ॥ इति नित्यक्रमविधिः ॥ अयं च नित्यक्रमः सूतकेऽपि कर्तव्यः । अत्र वचनानि श्यामाक्रमे लिखितानि । तत्र च सकामैर्मनसा. निष्कामैर्यथोक्तमिति विशेषः । बालवृद्धस्त्रीमूढैः यथाप्रज्ञं कृता सपर्या 'दौर्बोधीत्युच्यते । स्वयं सम्पाद्य सर्वाणि श्रद्धया साधनानि यः । पूजयेत् तत्परो देवीं स लभेताखिलं फलम् ॥ 1 ' दौबोंधिन्युच्यते- -अ१. 3
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy