SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ فرف यौवनोल्लासः तृतीयः-श्रीक्रमः षोडश्युपासकस्य तु त्रयोदशबीजपुटितैः प्रत्येकखण्डैः तत्त्वत्रयशोधनं सर्वेण मूलेन सर्वतत्त्वशोधनं च विशेषः ॥ __ अत्र प्रथमपात्रस्वीकार एवोत्थानम् । यथासम्प्रदायं सर्वपात्रस्वीकारोऽपि । स्त्रीणां तूत्थायैव । अत्र च बालोपास्तावेकं पात्रं सर्वतत्त्वशोधनम् । पञ्चदश्युपासनायां तु पात्रत्रयम् । श्रीषोडशाक्षर्युपास्तौ तु तच्चतुष्टयम् । निवृत्ते पूर्णाभिषेके तत्पञ्चकं, यथाऽधिकारमैच्छिकानि वा। विश्वस्तायाः कुमार्याः सुवासिन्याश्चैकं पात्रमिति विवेकः ॥ किं च श्रीगुरोस्तच्छक्तिसुतज्येष्ठकनिष्ठानां स्वज्येष्ठस्य 'सामयिकानां स्त्रीणां चोच्छिष्टं द्रव्याधुपादेयम् । तेभ्यस्तु न देयम् । स्वकनिष्ठशिप्ययोस्तु प्रदेयम् । वीराणां तूच्छिष्टं चर्वणमात्रमादेयम् ॥ उल्लासास्तु-आरम्भतरुणयौवनप्रौढतदन्तोन्मनानवस्थाऽऽख्याः सप्त । तेष्वय॑संशोधनमारम्भः । तरुणयौवनप्रौढेषु सपर्याविधिः । ततो देवताविसर्जनम् । अवशिष्टं अवस्थात्रयं सिद्धानां वीराणां न तु साधकानां इति तत्त्वम् । इति हविःप्रतिपत्तिः ॥ देवतोद्वासनम् ततः सामान्योदकात् किञ्चिदादाय-- साधु वाऽसाधु वा कर्म यद्यदाचरितं मया । तत् सर्वं कृपया देवि गृहाणाराधनं मम ॥ इति देव्या वामहस्ते पूजां समर्प्य शङ्खमुद्धृत्य देव्युपरि त्रिः परिभ्राम्य तज्जलं हस्ते समादाय सामयिकानात्मानं च मूलेन प्रोक्ष्य शङ्ख प्रक्षाळ्य निदध्यात् । ततो मूलेन तीर्थनिर्माल्ये स्वीकृत्य, ज्ञानतोऽज्ञानतो वाऽपि यन्मयाऽऽचरितं शिवे । तव कृत्यमिति ज्ञात्वा क्षमस्व परमेश्वरि ॥ इति क्षमाप्य सर्वासामावरणदेवतानां श्रीदेव्यङ्गे विलयं विभाव्य, खेचरी बद्धोद्वास्य, तेजोरूपेण परिणतां श्रीदेवी पूर्ववत् हृदयं नीत्वा तत्र च मूर्ति पञ्चधा उपचर्य पुनरात्माभिन्नसंविद्रूपेण विभावयेत् । इति विसर्जनम् ॥ ततः 1 सामयिकीनां अ१, ब२, १३.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy