SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ ६ नित्योत्सव: सतीर्थे विधुप्रासे पुण्यारण्ये वनेषु च । मन्त्रदीक्षां प्रकुर्वाणां मार्क्षादीन् न शोधयेत् ॥ प्रकारान्तं च सर्व वारा ग्रहाः सर्व नक्षत्राणि च राशयः । यस्मिन्नहनि सन्तुष्टो गुरुः सर्वे शुभावहाः || सन्तुष्टे च गुरौ तस्य मन्तुष्टाः सर्वदेवताः । गुरुं सन्तोषयेत् भक्त्या द्वयमेव तदा भवेत् ॥ द्वयं भोगमोक्षौ । एवकारः अप्यर्थः । अधिकारिभेदेन कालो यथा मुमुक्षूणां सदा कालः स्त्रीणां कालस्तु सर्वदा || इति ॥ गुरुलक्षणम् तन्त्रराजे.. सुन्दरः सुमुखः स्वस्थः सुलभा बहुतन्त्रवित् । असंशयः संशयच्छिन्निरपेक्षो गुरुर्मतः || सौन्दर्यमनवद्यत्वं रूपे सुमुखता पुनः । मेरपूर्वाभिभाषित्वं स्वच्छताऽजिह्मवृत्तिता ॥ सौलभ्यमप्यगर्वित्वं सन्तोषो बहुतन्त्रता । असंशयस्तत्त्वबोधः तच्छित्तत्प्रतिपादनात् ॥ नैरपेक्ष्यमवित्तेच्छा गुरुत्वं हितवेदिता । एवंविधो गुरुर्ज्ञेयस्त्वितर: गिप्यदुःखदः ॥ अजिह्मवृत्तिनेति छेदः । बहुतन्त्रता -- बहुतन्त्रवेदिता इत्यर्थः ॥ शिष्यलक्षणम् तथा -- चतुर्भिराद्यैः सहितः श्रद्धावान् सुस्थिराशयः । अलुब्धः स्थिरगात्रश्च प्रेक्ष्यकारी जितेन्द्रियः ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy