SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ आरम्भोल्लासः प्रथमः- दीक्षाक्रमः फाल्गुनैकादशी कृष्णा चैत्रे मासि त्रयोदशी । वैशाखेऽक्षय्यतृतीया ज्येष्ठे ' दशहरा स्मृता । आषाढे द्वादशी कृष्णा अमावास्या च श्रावणी | इमानि देवीपर्वाणि कोटियज्ञफलानि वै ॥ दीक्षाऽर्हाणीति शेषः । दशहरा ज्येष्ठशुक्ल दशमी । सौभाग्यचन्द्रोदय " अस्मन्नाथचरणैः बहूनि देवीपर्वाणि उक्तानि यथा- अमाऽन्तचान्द्रमासेषु चैत्रशुक्लत्रयोदशी । चतुर्दश्यपि शुक्लाऽथ वैशाखे शुक्लपक्षगाः || तृतीयैकादशीपौर्णमास्यः कृष्णचतुर्दशी । ज्येष्ठे तु शुक्ले दशमी राका कृष्णचतुर्दशी ॥ आषाढे शुक्लपक्ष पञ्चमी च त्रयोदशी । श्रावण मास शुक्लैकादशी शुक्लचतुर्दशी ॥ कृष्णा पञ्चम्यष्टमीच रोहिणीसहिता यदि । नवमी चाथ भाद्रस्य कृष्णषष्ठी तथाऽष्टमी || रोहिणीसहिता चेत् स्यादाश्विने सप्तमी सिता । अष्टमी च सिता कृष्णपक्षस्था च चतुर्दशी || कार्तिक शुक्लपक्ष नवमीद्वादशी तिथी । मार्गशीर्षे तृतीया च षष्ठी धवळपक्षगे ॥ पौषे चतुर्थीनवमीचतुर्दश्यः सिता मताः । दशमी त्वसिता माघे चतुर्थ्येकादशी सिते ॥ चतुर्दश्यसिता चाथ फाल्गुने शुक्लपक्षगे । नवम्य कृष्णा तु भवेदेकादशीति च ॥ रत्नावलीकुलोड्डीशयामळाद्यर्थसङ्ग्रहे ॥ इति ॥ अन्योऽपि विस्तरः तत एव ज्ञातव्यः ॥ 1 तु दहरा-अ. 3 इतः प्रभृत्युदाहृतवचनानि अ१, ब१, ब३ कोशेष्वेवोपलभ्यन्ते. " नवमी -अ.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy