SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः तुलायां सर्वसिद्धिः स्यात् सर्वलाभश्च वृश्चिके । मकरं पुत्रदं प्राहुः 'कुम्भो धनसमृद्धिदः ॥ शुक्लपक्ष शुभा दीक्षा कृष्णेऽप्यापञ्चमीदिनात् । भूतिकामैः सिते पक्ष मुक्तिकामैः सितेतरे ॥ इति ।। अत्र च गुरुभार्गवमौढ्यं चन्द्रतारानुकूल्यं लग्नस्य ग्रहबलादिकं च विचार्यम् ।। ग्रहबलं तु त्रिषडायगताः पापाः शुभाः केन्द्रत्रिकोणगाः । दीक्षायां तु शुभाः सर्वे रन्ध्रस्थाः सर्वनाशकाः ।। आयः एकादशस्थानम् । पापाः पापग्रहाः रविभौमशनिराहुकेतुक्षीणेन्दुपापयुक्ताः । सौम्याः शुभाः शुभग्रहाः अक्षीणेन्दुपापयोगरहितबुधगुरुभृगवः । केन्द्राणि प्रथमचतुर्थसप्तमदशमस्थानानि । त्रिकोणे पञ्चमनवमस्थाने । सर्वे पापाः शुभाश्च ग्रहाः उक्तम्थानगताः दीक्षायां शुभावहा एव । एत एव रन्ध्र अष्टमस्थाने स्थिता यदि सर्वनाशका इति योजना ॥ अथ उक्तकालमन्तरण दीक्षार्हः कालो यथा तन्त्रान्तरेविषुवेऽप्ययनद्वन्द्वे सङ्क्रान्त्यां दमनोत्सवे । दीक्षा कार्या त्वकालेऽपि पवित्रे गुरुपर्वणि ॥ विषुवे---मेषतुलासङ्क्रमणयोः इत्यर्थः । अयनद्वन्द्वे-कर्कटमकरसङ्क्रान्त्योः । सङ्क्रान्त्यां-तदन्यासु सङ्क्रान्तिपु इत्यर्थः । दमनोत्सवे-चैत्रपूर्णिमाऽऽदिषु दमनकरणकदेवीपूजादिनेप्वित्यर्थः । पवित्रे-श्रावणपूर्णिमाऽऽदिषु, देव्याः पवित्रारोपणदिवसेषु इत्यर्थः । गुरुपर्वणि-गुरोः जन्मव्याप्तिदिनयोः । तथा पष्ठी भाद्रपदे मासि 'कृष्णाश्विनचतुर्दशी । कार्तिके नवी शुक्ला मार्गे कृष्णा च पञ्चमी । पौषे च पूर्णिमा देवी माघे चैव चतुर्थिका ॥ 1 कुम्भः सर्वसमृद्धिकृत्-अ. कृष्णेति काकाक्षिन्यायनोभयत्रान्वेति-इति टिप्पणी अ, ब२. ' देवि-अ, ब१, ब२, ब३.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy