SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ १३२ नित्योत्सवः श्रीदेवीभूषितोत्सङ्गं सान्द्रसिन्दूररोचिषम् । हकारादिमनोर्वाच्यं वन्दे कामेश्वरं हरम् ॥ १६ ॥ संपत्करीमन्त्रस्य कण्ठ ऋषिः । गायत्री छन्दः । संपत्सरस्वती देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् - अनेककोटिमातङ्गतुरङ्गरथपत्तिभिः । सेवितामरुणाकारां वन्दे सम्पत्सरस्वतीम् ॥ १७ ॥ चण्डयोगेश्वरीमन्त्रस्य ईश्वर ऋषिः । नाना छन्दांसि । चण्डयोगेश्वरी देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम्— सृष्टिस्थितिभ्यां संहृत्या नाख्यया भासया श्रिताम् । कूलकन्था (?) कपालाढ्यां चण्डयोगेश्वरीं भजे ॥ १८ ॥ परशंभुनाथमन्त्रस्य वामदेव ऋषिः । पङ्क्तिश्छन्दः । परशंभुनाथ देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् — पूर्णाहन्तास्वरूपाय तस्मै परमशंभवे । आनन्दताण्डवोद्दण्डपण्डिताय नमो नमः ॥ १९ ॥ परामन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । परा सरस्वती देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् - अकळङ्कशशाङ्काभा त्र्यक्षा चन्द्रकलावती । मुद्रापुस्तलसद्वाहा पातु मां परमा कला ॥ २० ॥ बालामन्त्रस्य दक्षिणामूर्तिः ऋषिः । गायत्री छन्दः । बाला त्रीपुरसुन्दरी देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् अरुणकिरणजालैरञ्चिताशावकाशा विधृतजपवटीका पुस्तकाभीतिहस्ता । इतरकरवराढ्या फुल्लकल्हारसंस्था निवसतु हृदि बाला नित्यकल्याणशीला ॥ २१ ॥
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy