SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ १३१ यौवनोल्लासः तृतीयः-श्रीक्रमः ध्येयो वल्लभया सपद्मकरया श्लिष्टोज्ज्वलभूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश्वरोऽभीष्टदः ॥ ११ ॥ शिवशक्त्यात्मकपञ्चाक्षरमन्त्रस्य वामदेव ऋषिः । पङ्क्तिश्छन्दः । उमामहेश्वरो देवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम् वामांसन्यस्तवामेतरकरकमलायास्तथा वामहस्त न्यस्तारक्तोत्पलायाः स्तनभरविलसद्वामहस्तः प्रियायाः । सर्पाकल्पाभिरामः श्रितपरशुमृगेष्टः करैः काञ्चनाभः ध्येयः पद्मासनस्थः स्मरललितवपुः संपदे पार्वतीशः ॥ १२ ॥ अमृतमृत्युञ्जयमन्त्रस्य कहोळक ऋषिः । विराट् छन्दः । अमृतमृत्युञ्जयसदाशिवो देवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम् स्फुटितनळिनसुस्थं मौळिबद्धेन्दुरेखा स्रवदमृतरसार्दै चन्द्रवढ्यर्कनेत्रम् । स्वकरकलितमुद्रापाशवेदाक्षमालं स्फटिकरजतमुक्तागौरमीशं नमामि ॥ १३ ॥ श्रुतधारिणीमन्त्रस्य भार्गव ऋषिः । अनुष्टुप् छन्दः । ब्रह्मा देवता । तत्प्रसादसिद्धयर्थे जपे विनियोगः । ध्यानम् चतुराननमम्भोजनिषण्णं भारतीसखम् । अक्षमालावराभीतिकमण्डलुधरं भजे ॥ १४ ॥ मातृकामन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । मातृकासरस्वती देवता । तत्प्रसादसिद्धयर्थे जपे विनियोगः । ध्यानम् - पञ्चाशता मातृकया ह्यारसाखिलदेहया । समस्तविद्यारूपिण्या धन्योऽहं मातृकाम्बया ॥ १५ ॥ श्रीहादिलोपामुद्रामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । श्रीमहात्रिपुरसुन्दरी देवता । ह ५ बीजं, ह ६ शक्तिः, स ४ कीलकम् । तत्प्रसादसिद्धयर्थे जपे विनियोगः । बालया षडङ्गम् । ध्यानम्
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy