SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः — श्रीक्रमः १३३ अन्नपूर्णेश्वरीमन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । अन्नपूर्णेश्वरी देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् - आदाय दक्षिणकरेण सुवर्णदवीं दुग्धान्नपूर्णमितरेण च रत्नपात्रम् । अन्नप्रदाननिरतां नवहेमवर्णी अम्बां भजे कनकभूषणमाल्यशोभाम् ॥ २२ ॥ अश्वारूढामन्त्रस्य ब्रह्मा ऋषिः । गायत्री छन्दः । अश्वारूढा देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् -- बद्ध्वा पाशेनाङ्कुशेन कृप्यमाणाश्वसाध्यकम् । नन्तीं वेत्रेण फालखक्पाणिमश्वासनां भजे ॥ ध्यानान्तरम् -- अश्वारूढा कराये नवकनकमयीं वेत्रयष्टिं दधाना दक्षेऽन्ये धारयन्ती स्फुरति धनुर्लतापाशहस्ता सुसाध्या । देवी नित्यप्रसन्ना शशिशकललसत्केशपाशा त्रिणेत्रा दद्यादद्यानवद्यां श्रियमखिलसुखप्राप्तिहृद्यां श्रियै नः ॥ २३ ॥ श्रीविद्यागुरुपादुकामन्त्रस्य दक्षिणामूर्तिः ऋषिः । पङ्क्तिश्छन्दः । श्रीविद्या गुरुपादुका देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम् — तेजोमयमहाविद्यां शेखराञ्चितमस्तकाम् । रक्तां चतुर्भुजां वन्दे श्रीविद्यागुरुपादुकाम् ॥ २४ ॥ श्रीललिताया ॥ २५ ॥ लघुश्यामामन्त्रस्य मतङ्ग ऋषिः । विराट् छन्दः । श्रीलघुश्यामाम्बा देवता । तत्प्रसादसिद्ध्यर्थे जपे विनियोगः । ध्यानम्—– स्मरेत् प्रथमपुष्पिर्णी रुधिरबिन्दुशोणाम्बरां गृहीतमधुपात्रिकां मदविघूर्णनेत्राञ्चलाम् ।
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy