SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ नित्योत्सवः चक्षुप्मतीमन्त्रस्य भार्गव ऋषिः । नाना छन्दांसि । चक्षुष्मती देवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम् चक्षुस्तेजोमयं पुष्पकन्तुकं बिभ्रती करैः । गैप्यसिंहासनारूढां देवीं चक्षुष्मती भजे ॥ ६ ॥ विश्वावसुमन्त्रस्य संमोहन ऋषिः । गायत्री छन्दः । विश्वावसुर्देवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम् रक्ताङ्गरागारुणभूषणाढ्यं वीणाधरं वीटिकयोल्लसन्तम् । गन्धर्वकन्याजनगीयमानं विश्वावसुं सद्वृहतीं नमामि ॥ ७ ॥ पथिविद्रुद्रमन्त्रस्य वामदेव ऋषिः । पङ्क्तिश्छन्दः । पथिविद्रुद्रो देवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम् आत्तसज्यधनुर्बाणं कणं वृषभसंस्थितम् । अन्नपूर्णासमाश्लिष्टं पथिविद्रुद्रमाश्रये ॥ ८ ॥ तारामन्त्रम्य मत्स्य ऋषिः । विराट् छन्दः । ताराम्बा देवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम् नौकसिंहासनारूढां शाक्यदर्शनदेवताम् । जलापच्छमनीं वन्दे तारां वारिदमेचकाम् ॥ ९ ॥ नामत्रयमन्त्रम्य काश्यपात्रिभरद्वाजा ऋषयः । अनुष्टुप् छन्दः । श्रीमहाविष्णुदेवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम् समस्तदुस्तरव्याधिसंघध्वंसपटीयसे । अच्युतानन्तगोविन्दनाम्ने धाम्ने नमो नमः ॥ १० ॥ महागणपतिमन्त्रस्य गणक ऋषिः । नृचद्गायत्री छन्दः । श्रीमहागणपतिर्देवता। तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम् बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल श्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कगम्भोरुहः ।
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy