SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ यौवनोल्लासः तृतीयः -- श्रीक्रमः 'रश्मिमालामन्त्राणां ऋष्यादयः अथ रश्मिमालायाः ऋष्यादयो लिख्यन्ते तत्र प्रथमं गायत्र्याः ऋष्यादयस्तु आगतपूर्वा एव ॥ १ ॥ अभयंकरमन्त्रस्य गृत्समद ऋषिः । त्रिष्टुप् छन्दः । अभयंकरो देवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम् आरूढो वारणेन्द्रं दशशतनयनश्यामलः कोमलाङ्गः वर्मी वीरः प्रतापी प्रतिभटदहनप्रज्वलच्चक्रपाणिः । दोर्भिर्दिव्यायुधाढ्यैर्मणिगणखचितैर्देवमन्त्रीसनाथो दत्वाऽभीष्टानि शश्वत् परिहृतदुरितः पातु विश्वं महेन्द्रः ॥ २ ॥ 1 सौरमन्त्रस्य देवभार्गव ऋषिः । गायत्री छन्दः । सूर्यो देवता । तत्प्रसाद सिद्धयर्थे जपे विनियोगः । ध्यानम् — धृतपद्मद्वयं भानुं तेजोमण्डलमध्यगम् । सर्वाधिव्याधिशमनं छायाश्लिष्टतनुं भजे ॥ ३ ॥ 63 १२९ प्रणवस्य ब्रह्मा ऋषिः । गायत्री छन्दः । परमात्मा देवता । तत्प्रसादसिद्धयर्थे जपे विनियोगः । ध्यानम् - ओंकारवाच्यमुच्चण्डचण्डांशुसदृशप्रभम् । वासुदेवाभिधं ब्रह्म विश्वगर्भमुपास्महे ॥ ४ ॥ तुरीयगायत्रीमन्त्रस्य विश्वामित्र ऋषिः । गायत्री छन्दः । सविता देवता । तत्प्रीत्यर्थे जपे विनियोगः । ध्यानम् - देवीं तुरीयगायत्रीं तुर्यातीतपदाश्रयाम् । परोरजः प्रकाशात्मचितिरूपामहं भजे ॥ ५ ॥ ' सर्वोऽप्ययं खण्डः एकस्मिन् ( अ ) कोश एवोपलब्धः तत्र तत्र अपपाठग्रन्थपातादिदोषाशङ्कितोऽपि प्रमेयातिशयदृष्ट्या अत्र संयोजित इत्यावेद्यते.
SR No.010438
Book TitleParsuram Kalpasutra Part 02
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages247
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy