SearchBrowseAboutContactDonate
Page Preview
Page 354
Loading...
Download File
Download File
Page Text
________________ ३३० परशुरामकल्पसूत्रम् कोमला: पुष्टसर्वाङ्गाः भवेयुश्चोत्तमोत्तमाः । ग्राम्यारण्यौ कुक्कुटौ च मयूरस्तित्तिरिस्तथा ॥ चक्रवाकः सारसश्च राजहंसस्तथैव च । जलकुक्कुटहंसौ च चटको दश खेचराः ॥ इति ॥ तत्संस्कारप्रकारस्त्रिपुरार्णवे मधुराम्ल हिंगु बीजमरीच्याज्यसुपाचितम् । सुगन्धं मृदु पक्कं च सुस्वादु च मनोहरम् || इति || एतेषामलाभे प्रतिनिधिरुक्ता डामरतन्त्रे मांसानुकल्पोऽपूपः स्यान्मत्स्यस्य तु कदापि ॥ तृतीयप्रकृतिः अथ तृतीयमुख्यभेदो योगिनीतन्त्रे मत्स्यः कूर्मश्च देवेशि तृतीयं द्विविधं स्मृतम् ॥ इति ॥ सन्त्रान्तरे तत्पाकस्त्रिंपुराऽर्णवे अल्पकण्टकसंयुक्तं सुपक्कं स्वादुसंयुतम् । लिकुचाम्लादिसंयुक्तं विधिना संस्कृतं तथा ॥ इति ॥ तदनुकल्पो रहस्यार्णवे -- संवित्संयुक्तचणकपिष्टजं वटकं शिवे । मीनाकृतिकृतं वाऽपि मूलकं वाऽपि वा शिवे ॥ इति ॥ अलाभे तु तृतीयस्य द्वितीये त्र्यम्बकं जपेत् ॥ 6 इति द्वितीयं स्पृष्ट्रा त्र्यम्बकं यजामहे ' इति मन्त्रं जपेत् । तेन तृतीयकार्यसंपत्ति भवतीति तद्भावः ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy