SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ - सर्वसाधारणक्रमः दशमः खण्डः -- द्वितीयतृतीयसंपादनप्रकार: अथ द्वितीयतृतीयसंपादनप्रकारं दर्शयति 好 तदनन्तरं मध्यमयोरस्वयम सुविमोचनम् । उपादि मे नायं नियमः । मध्यमे तु स्वयं संज्ञपने तत्रायं मत्र:उद्बुध्यख पशो त्वं हि नाशिवस्त्वं शिवो ह्यसि । शिवोत्कृत्तमिदं पिण्डं मत्तस्त्वं शिवतां व्रज ॥ इति ॥ ६३ ॥ तदनन्तरं प्रथमसंपादनानन्तरम् । मध्यमयोः द्वितीयतृतीययोः । अस्वयं आत्मभिन्नम् । असु विमोचनं प्राणविमोचनं प्राणमोचनसाधनम् । कुर्यादिति शेषः । द्वितीयतृतीयप्रकृतिभूतपशुप्राणवियोगं स्वयं न कुर्यात् इति फलितोऽर्थः ॥ अथान्यस्य संज्ञतुरभावे किं कार्यं तत्राह- -उपादिम इति । उपादि मस्य द्वितीयस्य असुविमोचनं स्वयमप्यन्याभावे कुर्यात् । तृतीयस्य स्वयमसुविमोचने “ उद्बुध्यस्व " इति मन्त्रं पठित्वा असुविमोचनं कुर्यात् इति भावः ॥ :: द्वितीय प्रकृतिः द्वितीयतृतीयौ किंसम्बन्धिनौ ग्राह्यौ इत्याकाङ्क्षायां सूत्रे अनुक्तत्वात् तन्त्रान्तरवचनानि लिख्यन्ते । तत्र द्वितीयप्रकृतिः योगिनीतन्त्रे -३२९ द्वितीयभेदं वक्ष्यामि द्विविधं तच्छृणु प्रिये 1 भूचरं खेचरं चैव पुनस्तद्विविधं स्मृतम् ॥ ग्रामजं वनजं चापि ग्रामजं छागमेषकौ 1 वराहः शल्यको रोजो रुरुर्हरिण एव च ॥ खड्गी गोधा च शशकः दशधा भूचराः स्मृताः । रोगिणः कालविहताः परित्याज्या महेश्वरि ||
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy