SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ दशमः खण्डः --- सर्वसाधारणक्रमः चतुर्थद्रव्यम् चतुर्थमुक्तं योगिनीतन्त्रे चकोत्था माषा वा मुद्राः स्युर्धृतपाचिताः । तैलपक्का अपि शिवे मधुराश्च सुसंस्कृताः ॥ लवणाद्यैः संस्कृता वा गोधूमैस्तण्डुलादिभिः । निर्मिता रुचिराकाराः स्वादुयुक्ता महेश्वरि || इति ॥ इदं द्वितीयादिपर्युषितं वर्ज्यम् । तदुक्तं त्रिपुराऽर्णवेएतत्पर्युषितं सर्वमनर्ह पूजनादिपु । तत्पूजया प्रकुप्यन्ति योगिन्यस्त्वतिभीषणाः ॥ इति ॥ तन्त्रान्तरे प्रथमस्यापि हेयत्वमुक्तम् प्रथमादि चतुर्थान्तं यामात् पर्युषितं भवेत् । प्रथमादि चतुर्थान्तं सर्वं त्याज्यं सुसाधकैः ॥ इति ॥ पर्युषितस्य परित्यागः । सति संभवे अन्यथा ग्राह्यं क्रयक्रीतमपीति । तन्त्रस‍ लिखितनीलतन्त्रवचनविरोधात् क्रयक्रीतमपर्युषितं संभवति । दोषदुष्टं सर्वदा त्याज्यम् । तन्त्रे प्रतिपादिता दोषा यथा तथा विकृतिमापन्नं मार्जाराद्यैरपाहतम् । केशाश्रुनखनिष्ठीवदूषितं च परित्यजेत् ॥ इति ॥ चकारेण कृमिकीटादिसंमिश्रं पिपीलिकादिदूषितादि एतत्सदृशं सर्वे ग्राह्यम् || ३३१ प्रथमादीनां मण्डलादन्यत्र ग्रहणप्रकारः प्रथमादि सर्व मण्डलात् बहिः न ग्राह्यं इत्युक्तं प्राक् । तस्यापवाद' कचित्तन्त्रे देव्यै निवेदितं सर्व प्रथमादिकमद्रिजे । नापि संस्पृष्टं समानीतं सुसंस्कृतम् ॥
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy