SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ १५३ तृतीयः खण्डः-श्रीक्रमः चरमे जन्मनि यथा श्रीविद्योपासको भवेत् । नामसाहस्रपाठश्च तथा चरमजन्मनि ॥ इति ॥ यामलेऽपि श्रुतिस्मृतिप्रोक्तकर्मानुष्ठानाद्बहुजन्मसु । शोधितं च मनो ज्ञात्वा श्रीविद्योपासको भवेत् ॥ इति ॥ फेट्कारीतन्त्रेऽपि सर्वथा गोपनीयेयं विद्या स्यादजितेन्द्रिये । तेन वीर्यवती विद्या न विद्या स्यात् प्रकाशतः ॥ कुलपुष्पं कुलद्रव्यं कुलपूजां कुलं जपम् । नेदृशानां प्रवक्तव्यं यदीच्छेत् 'प्रियमात्मनः ॥ इति ॥ अजितेन्द्रिये प्रवचनमपि निषिध्यते । किमु वक्तव्यं स्वीकारे । तस्मादजितेन्द्रियस्य कौळमार्गे नास्त्यधिकार इत्यलमतिविस्तरेण ॥ ३१ ॥ एतदर्थ्यशोधनमिति शिवम् ॥ ३१ ॥ इति . . . कल्पसूत्रे श्रीक्रमो नाम तृतीयः खण्डः ए त त् सामान्यार्थ्यशोधनोत्तरं 'तज्जलेन' इति मण्डलादिकरणमुक्तम् , तदारभ्य ‘कुण्डलिन्यां जुहुयात्' इत्यन्तं कर्म अर्घ्य शोधनं अर्ध्यसंस्कारः । यद्यपि पूर्वोक्तसूत्रे कर्मकलापविधानादेव अर्यसंस्कार इति ज्ञातुं शक्यते ; तथाऽपि शापविमोचनादिकतिपयसंस्कारः पात्रान्तराणि च भ्रान्त्या केचन स्वीकुर्युः, तन्माभूत् इत्येतदर्थ परशुरामः परमकारुणिको भ्रान्तिनिरासाय इदं सूत्रं प्रणिनाय । ए तत् उक्तं यत् तावदेव शोधनं नान्यदित्यर्थः । शि व मित्यनेन अर्घ्यप्रकरणसमाप्तिः सूचिता ॥ __ विशेषार्थ्यशोधने निबन्धे मण्डलपूजायां विद्यया मध्यपूजनं सूत्रे उक्तं तत्त्यक्तम् । अनुक्तं तुरीयस्वरलेखनं ह्रीं महालक्ष्मीश्वरीति मन्त्रं सुधादेवीपूजनादि 1 सिद्धि-श्री.
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy