SearchBrowseAboutContactDonate
Page Preview
Page 176
Loading...
Download File
Download File
Page Text
________________ १५२ परशुरामकल्पसूत्रम् दक्षिणवामाचारविवेकः अजितेन्द्रियैः कुलमार्ग प्रविश्य केवलोदकादिना पूजा कार्या । अयं दक्षिणो मार्गः । जितेन्द्रियैः प्रोक्तद्रव्येण सपर्याऽनुष्ठेया। अयं वामाचार इति कश्चित् । तत्तुच्छम् , वामाचारपदार्थस्यैव तेनाज्ञातत्वात् । तथा च त्रिकूटारहस्ये -- वामाचारं प्रवक्ष्यामि श्रीविद्यासाधनं प्रिये । यं विधाय कलौ शीघ्रं मान्त्रिकः सिद्धिभाक् भवेत् ॥ माला नृदन्तसंभूता पात्रं मानुषमुण्डकम् । आसनं सिंहचर्मादि कङ्कणं स्त्रीकचोद्भवम् ॥ इत्याद्युपक्रम्य विस्तरेण वर्णितम् । तन्मध्ये मुख्यद्रव्यनामापि नास्ति । तद्विस्तरस्तु “ सव्यापसव्यमार्गस्था" इति ललितानामव्याख्यानावसरे अस्मत्परमेष्ठिगुरुभिः विस्तरेण प्रपञ्चितः । विशेषजिज्ञासुभिः ततोऽवगन्तव्यम् । तथा कालिकापुराणादपि । ग्रन्थविस्तरभयान्नेह तनोमि ॥ अजितेन्द्रियस्य कौलमार्गे अनधिकारः यदपि परमानन्दतन्त्र टिप्पण्यां अजितेन्द्रियाणां गन्धोदकेन पूजनमुक्तम् ; तदसत् , “ मुख्यालाभे चानुकल्पो नान्यथा तु कदाचन" इति परमानन्दतन्त्रे विंशोल्लासवचनविरोधात्, मुख्येऽनधिकृतस्य प्रतिनिधावधिकारस्य शशविषाणतुल्यत्वात् । तस्मादजितेन्द्रियाणां आपाततः उपासनेच्छायां अन्यमार्गेण अन्यदेवतोपासनं कृत्वा तेन परिपक्वान्तःकरणं दृढं विदित्वा पश्चात् कौळमाश्रयेत् । तदुक्तं कुलसारे अन्यासां देवतानां तु भूयोभूयो निषेवणात् । परिपक्वमनाः कौले लब्धप्रामाण्यको नरः । बाह्येन्द्रियाणि संयम्य प्रविशेदत्र नेतरः ॥ इति ।। ब्रह्माण्डपुराणेऽपि-. यस्यान्यदेवतानामकीर्तनं जन्मकोटिषु । तस्यैव भवति श्रद्धा श्रीदेवीनामकीर्तने ।
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy