SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ परशुरामकल्पसूत्रम् गालिन्याः पुष्पं दत्वेत्यन्तं अनुक्तं संगृहीतम् । अत्र प्रमाणाभावात् केवलतद्बुद्ध्या रचितमसंग्राह्यम् ॥ ३२ ॥ १.५४ इति ... कल्पसूत्रवृत्तौ श्रीक्रमो नाम तृतीयः खण्डः ॥ चतुर्थः खण्डः–ललिताक्रमः श्रीचक्रे परचित्यावाहनम् हृदि स्थिताया देवतायाः श्रीचक्रे आवाहनप्रकारं दर्शयितुमुपक्रमतेअथ हृच्चक्रस्थितामन्तस्सुषुम्नापद्माटवीनिर्भेद नकुशलां निरस्तमोहतिमिरां शिवदीपदीप्तिमाद्यां संविदं वहन्नासापुटेन निर्गमय्य लीलाssकलितवपुषं तां त्रिखण्डमुद्राशिखण्डे कुसुमाञ्जलौ हस्ते समानीय ॥ १ ॥ 1 अथेति क्रमविशेषद्योतकं, " अथ जिह्वाया अथ वक्षसः इतिवत् । यद्वा — पूर्वप्रकरणविच्छेदद्योतकम् । हृच्च क्रं अनाहतं, तदेव दहमित्यपि व्यवह्नियते । तत्र स्थितां । शास्त्रे देवतानिवासस्थानं तदेव प्रसिद्धम् । तथा च श्रुतिः:-" तत्रापि दह्वं गगनं विशोकस्तस्मिन् यदन्तस्तदुपासितव्यम्” इति । स्कान्दपुराणेऽपि - “ हृत्पुण्डरीकान्तरसन्निविष्टम् " इति । अतो देवताया निवासस्थानं हृच्चक्रम् । तत्र स्थिताया बाह्योपचारपूजनं न संभवति । अतः तत्र स्थानाद्वहिरानयनार्थं सार्वकालिकं स्थानं ज्ञापयितुमिदं विशेषणं ज्ञेयम् । सुषुम्नाऽपि मूलाधारादिब्रह्मरन्ध्रस्थसरोरुहान्तानां कमलानां गुंफनाधारभूतदण्डाकृतिरेको नाडीविशेषः । तदुक्तं विष्णुपुराणे - मूलादिदेहचक्राणामाधाराऽसौ प्रकीर्तिता । या सुषुम्नेति सर्वत्र गीयते परमर्षिभिः ||
SR No.010437
Book TitleParsuram Kalpasutra Part 01
Original Sutra AuthorN/A
AuthorA Mahadev Shastri
PublisherCentral Library
Publication Year1923
Total Pages413
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size37 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy