SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या चम्पूरामायणे----I. 2. उच्चैर्गतिर्जगति सिध्यति धर्मतश्चे तस्य प्रमा च वचनैः कृतकेतरैश्चेत् । तेषां प्रकाशनदशा च महीसुरैश्चे त्तानन्तरेण निपतेत्क नु मत्प्रणामः ॥ 8891 ५४६ । कर्मप्रवचनीयाः । ( १. ४. ८३.) इत्यधिकृत्य । ५४७ । अनुलक्षणे । (१. ४. ८४) लक्षणमत्र हेतुः । रक्षणार्थे अनोः कर्नप्रवचनीयसंज्ञा स्यात् । ५४८ । कर्मप्रवचनीययुक्ते द्वितीया । (२. ३. ८.) एतेन योगे द्वियीया स्यात् । जपमनु प्रावर्षत् । हेतुभूतजपोपलक्षित वर्षणमित्यर्थः । अस्मिन्नेव अन्ये श्लो० 228. वचनमनु क्रुद्धः । वचनेन हेतुना क्रुद्धा । 'कर्मप्रवचनीयानां प्रतिषेधः' (वा० 1839. सू. 780 ) इति न समासः । वचनमनु । ५४९. । तृतीयार्थे । (१. ४. ८५) __ अस्मिन्धोत्येऽनुरुक्तसंज्ञः स्यात् । नदीमन्ववस्मिता सेना । नद्या सह सम्बद्धेत्यर्थः । अस्मिन्नेव ग्रन्थे श्लो० 228. पापमनु पापानु पापेन सहेत्यर्थः । कविना स्वातन्त्र्यात् द्वितीयेति योगविभागात् सुप् सुपेति वा समासः कृतः । कर्मप्रवचनीयानां प्रतिषेधः' (वा० 1339. सू. 780) इति अनुपापमित्यव्ययीभावसमासस्य प्रतिषेधः । रघुवंशे-VIII. 72. प्रमदामनु संस्थितः शुचा नृपतिः सन्निति वाच्यदर्शनात् । न चकार शरीरममिसात्सह देव्या न तु जीवितेच्छया ।। 290 ।।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy