SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ कारकपकरण माधे-IX. 17. दिक्सोऽनु मित्रमगमद्विलयं किमिहास्यते बत मयाबलया । रुचिभतुरस्य विरहाधिगमा दिति सन्ध्ययापि सपदि व्यगमि ।। 291 ।। अनु मित्रमित्यव्ययीभाव समासस्य प्रतिषेधादनु मित्रमिति पदद्वयम् । चम्पूरामायणे-I. 31. तमेनमन्वजायन्त त्रयस्नेतामितेजसः । अग्रजस्यानुकुर्वन्तस्तैस्तैलोकोत्तरैर्गुणैः ।। 292 ।। ५५० । हीने । (१. ४.८६) हीने द्योत्येऽनुः प्राग्वत् । अनुहरि सुराः । हरेहींना इत्यर्थः । भट्टिकाव्ये-VIII. 86. न त्वं पापानु रामं चेदुर शूरेषु वा ततः ! अपवाह्य छलाद्वीरौ किमर्थं मामिहाहरः ।। 2५३ ।। राममनु रामाद्धीनः । समासप्रतिपादनु राममिति पदद्वयम् । किरातार्जुनीये--XIII. 52. लभ्यमेकसुकृतेन दुर्लभा रक्षितारमसुरक्ष्यभूतयः । स्वन्तमन्तविरसा जिगीषतां मित्रलाभमनु लाभसम्पदः ।। 294 || मिललाममनु मित्रलाभाद्धीना निकृष्टा इत्यर्थः । ५५१ । उपोऽधिके च । (१. ४, ८७) अधिके हीने च द्योत्ये उपेत्यव्ययं प्राक्सझं स्यात् । 'यस्मादधिकं (सू. 645) इत्यधिके सप्तमी । 'कर्मप्रवचनीययुक्त द्वितीया' (सू. 548) इति हीने द्वितीया। उप मुरेषु हरिः । सुरेभ्योऽधिक इत्यर्थः । उप हरिं सुराः । हरेहींना इत्यर्थः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy