SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् शेषाण्यहोयीसुतसम्पदे च ___ वरं वरेण्यो नृपतेरमार्गीत् ।। 284। रघुवंशे-III. 1. अरिष्टशय्यां परितो विसारिणा सुजन्मनम्तस्य निजेन तेजसा । निशीथदीपाः सहसा हतत्विषो बभूवुरालेल्यसमर्पिता इव ।। 285 ।। भट्टिकाव्ये -V. I. निराकरिष्णू वर्तिष्णू वर्धिष्णू परितो रणम् । उत्पतिष्णू सहिष्णू च चेरतुः खरदूषणौ ॥ 286 | चम्पूरामायणे--IV. 3. ग-तस्मिन्नसमशरसमरसमये पम्पा समया पर्यटन् पर्याकुलहृदयो हृदयदयितां हृदि लक्षयन् लक्ष्मणमिदमभाषत ॥ 287 ॥ माधे-I. 68. स्मरत्यदो दाशरथिर्भवन्भवा नमुं वनान्ताद्वनितापहारिणम् । पयोधिमाविद्धचलजलाविलं विलङ्घय लङ्कां निकषा हनिष्यति ॥ 288 । ५४५ । अन्तरान्तरेणयुक्ते । (२. ३. ४) आभ्यां योगे द्वितीया स्यात् । अन्तरा त्वां मां हरिः । अन्तरेण हरिं न सुखम् । अस्मिन्नेव ग्रन्थे श्लो० 218. वैदेहीम् आत्मानं चेति शेषः । अन्तरा उभयोर्मध्य इत्यर्थः । जयमङ्गलव्याख्याने वैदेहीम् अन्तरा क्रुद्धो वैदेह्या वधे कुपितः । अन्तराशब्दो मध्यमाधेयप्रधानमाचष्टे । आधेयश्चात्र वधः । इति ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy