SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ कारकप्रकरणम् ५३७ | कर्मणि द्वितीया । ( २.३.२ ) अनुक्ते कर्मणि द्वितीया स्यात् । हरिं भजति ! अभिहिते तु कर्मणि प्रथमैव ! हरिः सेव्यते । भट्टिकाव्ये - VIII. 94. ततः खङ्गं समुद्यम्य रावणः क्रूरविग्रहः । वैदेहीमन्तरा क्रुद्धः क्षणमूचे विनिश्वसन् ॥ 218| खड्गमित्यनभिहिते कर्मणि द्वितीया । ५३८ । तथायुक्तं चानीप्सितम् । (१.४.५० ) अस्मिन्नेव ग्रन्थे श्लो० 217. काकुत्स्थम् । ५३९ । अकथितं च ( १. ४. ५१ ) अपादानादिविशेषैरविवक्षितं कारकं कर्मसंज्ञं स्यात् । दुह्यः चपच दण्डरुधिप्रच्छिचित्रशा सुजिमधूनुषाम् । कर्मयुक्स्यादकथित तथा स्यानीहृकृष्वहाम् ॥ दुहिया चिरुच्छिभिक्षिचित्रामुपयोगनिमित्तमपूर्वविधौ । ब्रुविशासिगुणेन च यत्सचते तदकीर्तितमाचरितं कविना ॥ इतिवचनात् जिदण्डिकृषकृमुण्डिनी हृन्मुषिवहिग्रहाम् । द्विकर्मसु पचादीनां चोपसङ्ख्यानमिष्यते ॥ भट्टिकाव्ये --- VIII. 82. ! ५३ यः पयो दोग्धि पाषाणं स रामाद्भुतिमाप्नुयात् । रावणं गमय प्रीतिं बोधयन्तं हिताहितम् ॥ 219 ||: दुहेर्द्विकर्मकत्वम् । तत्र पयस ईप्सितकर्मत्वम् । पाषाणमित्यकथितकर्मत्वम् । भट्टिकाव्ये - VI. 8. : सोऽपृच्छलक्ष्मण सीतां याचमानः शिवं सुरान् । रामं यथास्थित सर्वं भ्राता ब्रूते स्म विक्लवः ॥ 220 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy