SearchBrowseAboutContactDonate
Page Preview
Page 636
Loading...
Download File
Download File
Page Text
________________ ६२० पाणिनिसूत्रव्याख्या वा० । समानस्य सभावो द्यस् चाहनि । (8245.) समानेऽहनि सद्यः । वा० । पूर्वपूर्वतरयोः परभाव उदारी च प्रत्ययौ संवत्सरे । ( 8246.) पूर्वस्मिन् वत्सरे परुत् । पूर्वतरे वत्सरे परारि । वा० । इदम इशू समसण्प्रत्ययश्च संवत्सरे । (8247.) अस्मिन् संवत्सरे एषमः वा० । परस्मादेद्यव्यहनि । ( 3248.) परस्मिन्नहनि परेद्यवि । वा ० । इदमोऽश् द्यश्च । (8249.) अस्मिन्नहनि अद्य । वा० । पूर्वान्यान्यतरेतरापराधरो भयोत्तरेभ्य एद्युस् । ( 3250.) पूर्वस्मिन्नहनि पूर्वेद्युः । अन्यस्मिन्नहनि अन्येद्युः । उभयोर होरुभयेद्युः । वा ० । द्युश्वोभयाद्वक्तव्यः । ( 8251.) उभयधुः । अस्मिन्नव ग्रन्थे लो० 180. अद्य । भट्टिकाव्ये - XI. 21. बीतोष्ठरागाणि हृताञ्जनानि भाखन्ति लोलैरलकैर्मुखानि । प्रातः कृतार्थानि यथा विरेजुस्तथा न पूर्वेद्युरलङ्कृतानि ॥ 1820 ॥ अस्मिन्नेव ग्रन्थे श्लो० 1628. अन्यस्मिन्नहनि अन्येद्युः । रघुवंशे—II. 26. अम्येयुः | अन्येद्युरात्मानुचरस्य भाव जिज्ञासमाना मुनिहोमधेनुः । गङ्गाप्रपातान्त निरूढघासं गौरीगुरोर्गह्वरमाविवेश ॥ 1821 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy