SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ ६१८ भट्टिकाव्ये - XXI. 3. पाणिनिसूत्रव्याख्या अपि तत्ररिपुः सीतां नार्थयिष्यत दुर्मतिः । क्रूरं जात्यवदिष्यच्च जात्वस्तोष्यच्छ्रि स्वकाम् ॥ 1815 || तत्ररिपुः सभवान् रिपुः । भवच्छब्दोऽर्थागम्यते । माघे -- XIV. 2. लज्जते न गदितः प्रियं परो वक्तुरेव भवति त्रपाधिका । व्रीडमेति न तव प्रियं वदन् हीमताभवतैव भूयते ॥ 1816 || भवता पूज्येन । सार्वविभक्तिकस्त्रल् । सुप्युपेति समासः । अस्मिन्नेव ग्रन्थे श्ल े० 680. अत्रभवते अर्धं दत्वा । त्रल् । १९६४ । सर्वैकान्यकियत्तदः काले दा । ( ५. ३. १५ ) सप्तम्यन्तेभ्यः कालार्थेभ्य: स्वार्थे दा स्यात् । सर्वस्मिन् काले सदा सर्वदा | एकदा | अन्यदा । कदा | यदा । तदा । काले किम् । इह देशे । भट्टिकाव्ये - III. 18. सृष्ट यो यश्च भयेष्वरक्षीत् यस्सर्वदास्मानपुषत्स्वपोषम् । महोपकारस्य किमस्ति तस्य तुच्छेन यानेन वनस्य मोक्षः ॥ 1817 ॥ सर्वदा । चम्पूरामायणे - I. 39. ग- एकदा सुन्दे विनिहते मारीचः कुम्भसम्भवमभिभूय तस्य शापादवाप कोणताम्, ताटका चाभूत्पुरुषादिनी ॥ 1818 ॥ एकदा | अस्मिन्नेव ग्रन्थे श्लो० 467. अन्यदा अन्यस्मिन्काले । अस्मिन्नेव ग्रन्थे श्लो० 1468. तदा ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy