SearchBrowseAboutContactDonate
Page Preview
Page 628
Loading...
Download File
Download File
Page Text
________________ ६१२ पाणिनिसूत्रव्याख्या अस्मिन्नेव ग्रन्थे श्लो० 696. अर्थवान् धनिकः । अस्मिन्नेव ग्रन्थे श्लो० 1271. गुरुदक्षिणार्थी । रघुवंशे-XV. 2. लवणेन विलुप्तेज्यास्तामिस्रण तमभ्ययुः । मुनयो यमुनाभाजः शरण्यं शरणार्थिनः ।। 1807 ॥ शरणार्थिनः। १९४२ । बलादिभ्यो मतुबन्यतरस्याम् । (५. २. १३६) बलवान् बली । उत्साहवान् उत्साही । बलादिः- ५. ४२. चम्पूरामायणे-VI. 77. ग—अनन्तरमपक्रान्तासुषु विक्रान्तेषु पुरन्दरारिमुखेषु नन्दनेषु, निहतेषु कुम्भकर्णादिषु भ्रातृषु, विध्वस्तेषु प्रहस्तपूर्वेषु सचिवेषु, व्यापादितेषु विरूपाक्षप्रभृतिषु सेनापतिषु, विकाणे भवति निखिले बलवति बले समन्ततः करुणपरिपूरितपौरववधूजनपरिदेवनोत्तरङ्गायां लङ्कायामातङ्कातिशयरोषणो रावणस्तत्क्षणमिक्ष्वाकुकुलनायकदयितां धरणीसुतां जिघांसुरन्तिकगतमन्त्रिणा निवार्यमाणस्सारथिना विधिना च चोदितरथो दाशरथिविजयविहितसङ्गरस्सङ्गराङ्गणमवततार ॥ 1808 ।। बलवति । मतुप । अस्मिन्नेव ग्रन्थे श्लो० 1090. बली । इनिः । । । अस्मिन्नेव ग्रन्थे श्लो० 971. शिखी । ब्रीह्यादित्वाबलादित्वाच्च इनिः । अस्मिन्नेव ग्रन्थे श्लो० 1778. शिखी । १९४४ । कंशंभ्यां वभयुस्तितुतयसः। (५. २. १३८) कं शं इति मान्तौ । कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययास्स्युः । कंवः । कभः । कंयुः । कन्तिः। कन्तुः । कंतः । कयः । शंवः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शंयः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy