SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ ६०४ कुमारसंभवे - VIII. 85. पाणिनिसूत्रव्याख्या उतरन्ति विनिकीय पल्वलं गाढपङ्कमतिवाहितातपाः । दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुर बिसाकुरा इव ।। 1789 ॥ दंष्ट्रिणो दंष्ट्रावन्तः । व्रीह्यादिरिनिः । १९२४ । तुन्दादिभ्य इलच । ( ५. २. ११७ ) चादिनिठनौ मतुप् च । तुन्दिलः तुन्दी तुन्दिकः तुन्दवान् । विवृद्धौ कर्णे । यस्य स कर्णिलः कर्णी कर्णिकः कर्णवान् । तुन्दादिः - ५.३८. अस्मिन्नव ग्रन्थे श्लो० 1078. तुन्दिला : प्रवृद्धा: । 'तुन्दिवलि' (सू. 1945 ) इति भे तुन्दिभः । ' तुन्दिस्तुन्दिभस्तुन्दी ' II. vii, 44. इत्यमरः । १९२५ । एकगोपूर्वाज्नित्यम् । ( ५.२.११८ ) एकशतमस्यास्तीति ऐकशतिकः । ऐकसहस्रिकः । गौशतिकः । गौसहस्रिके: । १९२६ । शतसहस्रान्ताच्च निष्कात् । ( ५.२.११९ ) ठञ् स्यान्मत्वर्थे । नैष्कशतिकः । नैष्कसहस्रिकः । Į १९२७ । रूपादाहतप्रशंसयोर्यप् । ( ५.२.१२० ) आहतं रूपमस्यास्तीति रूप्यः कार्षापणः । प्रशस्तं रूपमस्यास्तीति रूप्यो गौः । आहत इति किम् । रूपवान् । वा० । अन्येभ्योऽपि दृश्यते । ( 3210. ) हिम्याः पर्वताः । गुण्याः ब्राह्मणाः । माघे—XIV. 47. प्रेम तस्य न गुणेषु नाधिकं न स्म वेद न गुणान्तरं च सः । दित्सया तदपि पार्थिवोऽर्थिनं गुण्यगुण्य इति न व्यजीगणत् ॥ 1790 ॥ अगुण्यः अगुणवान् ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy