SearchBrowseAboutContactDonate
Page Preview
Page 619
Loading...
Download File
Download File
Page Text
________________ मत्वीयप्रकरणम् माधे-V. 42. सेव्योऽपि सानुनयनाकलनाय यन्त्र नीतेन वन्यकरिदानकृताधिवासः । नाभाजि केवलमभाजि गजेन शारी नान्यस्य गन्धमपि मानभृतस्तन्ते ।। 1ॐ शाखी वृक्षः । इनिः । माघे-V. 26. त्रासाकुलः परिपतन् परितो निवेशान् पुभिर्न कैश्चिदपि धन्विभिरन्वबन्धि ! तस्थौ तथापि न मृगः क्वचिदङ्गनाना माकर्णपूर्णनयनेषुहतेक्षणश्रीः !! 1786 !! धन्वी धनुष्मान् । बीद्यादित्वादिनिरिति स्वामी । अस्मिन्नेव ग्रन्थे श्लो० 1758. धन्विभिः । अस्मिन्नेव ग्रन्थे श्लो. 1522. धनुः प्रहरणमस्येति धानुष्कः । 'प्रहरणम् ' (सू. 1607) इति ठक् । धनुषा जीवति वा धानुष्कः । वेतनादिभ्यो जीवति । (सू. 1562 ) इति ठक् । माघे-XIV. 20. शब्दितामनपशब्दमुच्चकैर्वाकयलक्षणविदोऽनुवाकयया । याज्यया यजनकर्मिणोऽत्यजन् द्रवजारमपदिश्य देवताम् ! 1787 !! यजनकर्मिणः यजनव्यापारवन्तः । ब्रीह्यादिरिनिः । किरातार्जुनीये--XI. 59. शक्तिवैकल्यनम्रस्य निस्सारत्वाल्लवीयसः । जन्मिनो मानहीनस्य तृणस्य च समा गतिः ।। 1783 ।। जन्मिनो जन्तोः । ब्रीद्यादिरिनिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy