SearchBrowseAboutContactDonate
Page Preview
Page 618
Loading...
Download File
Download File
Page Text
________________ पाणिनिसूत्रव्याख्या कुमारसंभवे-VII. 39. तासाञ्च पश्चात्कनकप्रभाणां काली कपालाभरणा चकाशे । बलाकिनी नीलपयोदराजी दूरं पुरः क्षिप्तशतहदेव ।। 1780 ॥ बलाकिनी बलाकावती । इनिः । ठन्न स्यात् । रघुवंशे-~-XI. 15. ज्यानिनादमथ गृह्णती तयोः प्रादुरास बहुलक्षपाच्छविः । ताटका चलकपालकुण्डला कालिकेव निबिडा बलाकिनी ।। 1781 ।। बलाकिनी बलाकावती । इनिः । कालिका घनावलीव प्रादुरास । माधे-XIV. 70. सत्यवृत्तमपि मायिनं जगद्धमप्युचितनिद्रमर्भकम् । जन्म विभ्रतमजं नवं बुधाः यं पुराणपुरुषं प्रचक्षते ॥ 1782 ॥ मायिनं इनिः । ठन्नपि स्यात् । 'अस्माया' (सू. 1928 ) इति विनिरपि । मायावी। माघे--XIII. 4. अपदान्तरश्च परितः क्षितिक्षिता मपतन् द्रुतम्रमितहेमनेमयः । नविमारुताञ्चितपरस्परोपम क्षितिरेणुकेतुवसनाः पताकिनः ॥ 1783 ॥ पताका एषु सन्तीति पताकिनः । स्थाः । माघे--XII. 33. शौरेः प्रतापोपनतैरितस्ततः समागतैः प्रश्रयनम्रमूर्तिभिः । एकातपत्रा पृथिवीभृतां गणैरभूद्बहुच्छत्रतया पताकिनी ।। 1784 ॥ पताकिनी सेना । इनिः । ऋन्नेभ्यो डीम् । अस्मिन्नेव ग्रन्थे श्लो० 512. शाखिभिः वृक्षैः । इनिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy