SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ૮૦ पाणिनिसूत्रव्याख्या १८८८ । इष्टादिभ्यश्च । (५.२.८८ ) इष्टन इष्टी | अधीति । इष्टादि: ५. ३०. अस्मिन्नेव ग्रन्थे श्लो० 590. अध्वरेषु यागेषु इष्टमेभिरिष्टिनः । अध्वरानिष्टवन्त इत्यर्थः । अनेन इनिप्रत्ययः । ' तस्येन्विषयस्य ' ( वा. 1485. सू. 633 ) इति कर्मणि सप्तमी । कर्मसु पूर्ती । पूर्वमनेनेति पूर्ती । इनिः । पूर्ववत्सप्तमी । व्यस्मिन्नेव ग्रन्थे श्लो० 589. वृद्धमतेषु श्रुतमनेन श्रुती । कृतमनेन कृती । तेषां श्रोतानुष्ठाता च । इनिः । सप्तमी । रघुवंशे – III. 51. - ततः प्रहस्यापभयः पुरन्दरं पुनर्वभाषे तुरगस्य रक्षिता । गृहाण शस्त्रं यदि सर्ग एष ते न खल्वनिर्जित्य रघुं कृती भवान् ॥ 1712 || कृतमनेनेति कृती कृतकृत्यः । इनिः । कुमारसंभवे - V. 16. कृताभिषेकां हुतजातवेदसं त्वगुत्तरासङ्गवतीमधीतिनीम् । दिदृक्षवस्तामृषयोऽभ्युपागमन् न धर्मवृद्धेषु वयस्समीक्ष्यते ॥ 1718 ॥ अधीतमनमा अधीतिनी । इनिः । ' ऋनेभ्यो ङीप् ' ( सू. 306 ) इति ङीप् । अस्मिन्नेव ग्रन्थे लो 588 नीतिषु आम्नातिभिः अभ्यस्तनीतिशास्त्रैः | इनिः । सप्तमी । अनर्घराघवे -- V. 39. एको वेषपरिग्रहः परिकरः साधारणः कर्मणामाकृत्योर्मधुरत्वमेव सदृशं तुल्यैव गम्भीरता । तद्रष्टुं चिरमुत्सुकोऽस्मि कतरो वां रामभद्रः पुनः सर्वक्षत्रवघवती भृगुपतिर्येनावकीर्णीकृतः ॥ 1714 | अवकीर्णी । इनिः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy