SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ ४७६ पाणिनिसूत्रव्याख्या . भट्टकाव्ये-. 48. नलश्चित्रीयमाणोऽसौ रत्नहेममयो मृगः । क्यामुखीन:सीतायाः पुप्लुवे बहु लोभयन् ।। 1480 ॥ रजानां हेन्नश्च विकारो रनहेममयो मृगस्सन् । 'मयड् वैतयोः । (सू. 1523 ) इति विकारे मयट् । १४६३ । प्रभवति । ( ४. ३. ८३) तत इत्येव । हिमवतः प्रभवति हैमवती गङ्गा । रघुवंशे-IV. 45. स सैन्यपरिभोगेन नजदानसुगन्धिना । कावेरी सरितां पत्युश्शनीयामिवाकरोत् ॥ 1481 ।। कावेरी। तस्मै प्रभवति सन्तापादिभ्यः' (सु. 1766) सन्तापाय प्रभवति सान्तापिकः । सांप्रामिकः । १४६४ । विदूराज्यः । (४. ३. ८४) दिदुरात्प्रभवति वैदूर्यो मणिः । अस्मिन्नेव ग्रन्थे श्लो० 618. विदुरात्प्रभवन्तीति वैदूर्याणि । वालवायजमणयः । ज्यप्रत्ययः । १४६८ । शिशुक्रन्दयमसमद्वन्द्वेन्द्रजननादिभ्यश्छः। (४. ३. ८८) शिशूनां क्रन्दनं शिशुक्रन्दः । तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् ! क्लीवत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् विरुद्धभोजनीयम् । किरातार्जुनीयव्याख्यायां-I.. मल्लिनाथकविस्सोऽयं मन्दात्मानुजिघृक्षया । तत्किरातार्जुनीयाख्यं काव्यं व्याख्यातुमिच्छति ॥ 1482 ॥
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy