SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ पाणिलिसूनव्याख्या हेमन्ते साधुहेमन्तः प्राकारः । वसन्ते पुप्प्यन्ति वासन्त्यः कुन्दलताः । शरदि पच्यन्ते शारदाः शालयः । 'वर्षाभ्याष्ठक् ' (सू. 1389.) वर्षासु साधुर्वार्षिकः । १४१९ । उप्ते च (४. ३. ४४) हेमन्ते उध्यन्ते हैमन्ता यवाः। १४२८ । तत्र भवः (४. ३. ५३) सुघ्ने भवः सौनः । १४२९ । दिगादिभ्यो यत् (४. ३. ५४) दिश्यम् । वर्ण्यम् । दिगादिः-१. ६८. अस्मिन्नेव ग्रन्थे श्लो० 1892. दिक्षु भवानि दिश्यानि । माथे—V. 54. माजिप्रति प्रणतमूर्धनि बाह्निदेश्ये तस्याङ्गसङ्गमसुखानुभवोत्सुखायाः । नासाविरोकपवनोल्लसितं तनीयो रोमाञ्चतामिव जगाम रजः पृथिव्या ।। 1453 ।। बाह्निदेश्ये । अनेन भवार्थे यत्प्रत्ययः । तदन्तविधिस्तु मृग्यः । अस्मिन्नेव ग्रन्थे श्लो० 858. मेध्यैः मेघभवैः । भट्टिकाव्ये-I. 18. निष्ठां गते दत्रिमसभ्यतोषे विहित्रिमे कर्मणि राजपत्न्यः । प्राशु तोच्छिष्टमुदारवश्या स्तिस्रः प्रसोतुं चतुरस्सुपत्रान् ।। 1454 || उदारवंश्याः महाकुलप्रसूताः । दिगादियतः तदन्तविधिनिषेधात् राजवंश्यादिषु साध्वर्थे य इति वामनः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy