SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ स्त्रीप्रत्ययप्रकरणम् ३३ शस्त्रीश्यामैरशुभिराशु द्रुतमम्भ श्छायामच्छामृच्छति नीलीसलिलस्य ।। 145 ॥ नीली नील्याख्यौषधिः । 'नीली काला क्लीतकिका ' II. iv. 95. इत्यमरः । माघे-~-XX. 51. प्रसृतं रभसादयोऽमिनीला प्रतिपादं परितोऽभिवेष्टयन्ती । तनुरायतिशालिनी महाहे गजमन्दुरिव निश्चलं चकार ।। 146 || नीला नीलवर्णा । टाप् । कुशी अयोविकारश्चेत् । कामुकी मैथुनेच्छा चेत् । कामुकान्या । 'इच्छावती कामुका स्याद्वषस्यन्ती तु कामुकी' II. vi. 9. इत्यमरः । अस्मिन्नेव ग्रन्थे श्लो० 84. कामुकी। 'लषपत' (सू. 3134) इत्युकञ् । ङीष । कबरी केशानां संनिवेशश्चेत् , कबरान्या । चित्रेत्यर्थः । माघे-V. 19. दृष्टेव निर्जितकलापभरामधस्ता___ द्वयाकीर्णमाल्यकबरां कबरी तरुण्याः । प्रादुद्रुवत्सपदि चन्द्रकवान् द्रुमाग्रात् सङ्घर्षिणा सह गुणाभ्यधिकैर्दुरासन् ॥ 147 ।। अत्र द्वयमपि वर्तते । ५०१ । शोणात्प्राचाम् । (४. १. ४३) शोणी शोणा। चम्पूभारते-III. 114. शोणरुचा शिखयातिमहत्या बाणपुरावृतिवासनयेव । चण्डतरोऽस्य वनस्य समन्तात् कुण्डलनां कलयन्ववृधेऽग्निः ॥ 148 ।। शोणी शोणा वा रुक् यस्याः सा शोणरुक् , उभयत्रापि पुंवदावः ।
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy