SearchBrowseAboutContactDonate
Page Preview
Page 422
Loading...
Download File
Download File
Page Text
________________ ४.६ पाणिनिसूत्रव्याख्या ११६४ । महाकुलादखो । (४. १. १४१) अन्यतरस्यामित्यनुवर्तते । पक्षे खः । माहाकुलः माहाकुलीनः महाकुलीनः । अस्मिन्नेव ग्रन्थे श्लो० 66. माहाकुलीम् महाकुलापत्यम् । अन् । 'टिड्ढाणञ्' (सु. 470 ) इति की ! माहाकुलीनस्य महाकुलापत्यस्य । खञ् । अस्मिन्नेव ग्रन्थे श्लो० 1265. महाकुलस्यापत्यं पुमान् महाकुलीनः । विकल्पादनुवृत्तः खप्रत्ययः । ११६५ । दुष्कुलाड्ढन । ( ४. १. १४२.) पूर्ववत्पक्षे खः ! दौष्कुलेयः दुष्कुलीनः । मस्मिन्नेव ग्रन्थे श्लो० 66. दोप्कुलेयेन दुप्कुलापत्येन । ढक् । ११६६ । स्वसुश्छः । (४. १. १४३) स्वतीयः । श्रीमद्रामायणे-I. Lxiii. 4. स्वस्त्रीयं मम राजेन्द्र द्रष्टकामो महीपतिः । तदर्थमुपयातोऽहमयोध्यां रघुनन्दन ।। 1302 ॥ ११६७ । भ्रातुर्व्यच्च । (४. १. १४४ ) चाच्छः । भ्रातृव्यः । भ्रात्रीयः । भट्टिकाव्ये-XV. 120. द्रुतमत्रास्त सुग्रीवो भ्रातृव्यं शत्रुसङ्कटात् । मुष्टिना कौम्भकर्णिञ्च क्रुद्धः प्राणैरतित्यजत् ।। 1303 ॥ भ्रातृव्यं भ्रातुरपत्यम् । व्यत्प्रत्ययः । ११६९ । रेवत्यादिभ्यष्ठक् । (४. १. १४६ ) रेक्त्यादि:-१.२०.
SR No.010434
Book TitlePanini Sutra Vyakhya Purvarddha
Original Sutra AuthorN/A
AuthorT Chandrashekharan
PublisherT Chandrashekharan
Publication Year1954
Total Pages695
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy